वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 50, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् २९ भीमसेनः—किमिति नावेदयसि । ( केशानवलोक्य । ) अथवा किमा- वेदितेन । जीवत्सु पाण्डुपुत्रेषु दूरमप्रोषितेषु च। पाञ्चालराजतनया वहते यदिमां दशाम् ॥ १८ ॥ द्रौपदी—हज्जे बुद्धिमदिए, कहेहि णाहस्स को अण्णो मह परिहवेण खिज्जइ (हज्जे बुद्धिमत्तिके ! कथय नाथस्य कोऽन्यो मम परिभवेण खिद्यते । ) चेटी—जं देवो आणवेदि । ( भीममुपसृत्य । अञ्जलिं बद्ध्वा ) सुणादु- कुमालो । इदो वि अहिअदरं अज्ज उव्वेअकारणं आसी देवीए । ( यद्दे- व्याज्ञापयति । शृणोतु कुमारः । इतोऽप्यधिकतरमद्योद्वेगकारणमासीद्देव्याः । ) प्युद्वेगकारणं, न किमपीत्यर्थः । अन्वयः—पाण्डुपुत्रेषु, जीवत्सु, दूरम्, अप्रोषितेषु, च, पाञ्चालराजतनया, यत् इमाम्, दशाम्, वहते ॥ १८ ॥ अस्माकं सन्निधाने सति तादृशदशायोग्या द्रौपदी नेत्याह—जीवत्स्विति । पाण्डुपुत्रेषु = युधिष्ठिरादिषु, जीवत्सु=प्राणान् धारयत्सु, दूरम् = असमीपम्, क्रिया- विशेषणमिदम् । अप्रोषितेषु = परदेशेऽवसत्सु, च, पाञ्चालराजतनया = पाञ्चाल देशाधिपसुता, द्रौपदी, इत्यर्थः । राजतनयेत्यनेन दुःखसहनयोग्यता दर्शिता । यत्, इमाम् = अबद्धकेशां, दशां=स्थितिम्, वहते = प्राप्नोति । 'या दशा अस्वामिन्याः प्रोषितभर्तृकाया वा, सा दशा वीरपल्या द्रौपद्या वर्तते' इति भावः । अत्र विभावना- विशेषोक्त्योः, सन्देहसङ्करोऽलङ्कारः । पथ्यावक्त्रं छन्दः ॥ १८ ॥ नाथस्य कथय । उद्वेगकारणमिति शेषः । इतोऽपि = अस्मादपि, अधिकतरम् = उत्कृष्टम्, अद्य = अस्मिन्नहनि, द्वेगका- रणम् = उद्वेजनहेतुः । भीमसेन—क्यों नहीं कहती ? ( बालों को देखकर और उच्छ्वास लेकर ) अथवा कह कर ही क्या करेंगी ! ( क्योकि ) पाण्डुकुमार अभी जी रहे हैं और कहीं दूर भी नहीं चले गए हैं फिर पाञ्चालनरेश की पुत्री हैं और इस दशा को प्राप्त हो गई है ॥ १८ ॥ द्रौपदी—अरी बुद्धिमत्तिके, सम्पूर्ण घटना स्वामी से कह दो न, मेरे अपमानित होने पर इनके अतिरिक्त कौन दुःखी होगा ? चेटी—अच्छा महारानी की जो आज्ञा । ( भीमसेन के समीप जाकर हाथ जोड़कर ) सुनें । इससे भी बढ़कर आज महारानी की उद्विग्नता में कारण हुआ है ।