भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 42, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 42

स्तेजोऽपकर्ष इति यत्सत्यं कम्पितमिव मे हृदयम् । (परिवृत्य स्थित्वा ।) तद्वत्स, न त्वया कथितं न च मया भीमेन श्रुतम्— यत्तदूर्जितमत्युग्रं क्षात्रं तेजोऽस्य भूपतेः । दीव्यताऽक्षैस्तदाऽनेन नूनं तदपि हारितम् ॥ १३ ॥ ( नेपथ्ये ) समस्ससदु समस्ससदु भट्टिणी । ( समाश्वसितु समाश्वसितु भट्टिनी । ) सहदेवः—(नेपथ्याभिमुखमवलोक्यात्मगतम् ।) अये, कथं याज्ञसेनी मुहुरुपचीयमानवाष्पपटलस्थगितनयना आर्यसमीपमुपसर्पति । तत्कष्टतर- मापत्तितम् । स्येत्यर्थः । तेजोऽपकर्षः = प्रतापहानिः । यत्सत्यमिति समुदायः असम्भाव्यार्थद्योतकः, तस्य च कम्पनक्रियायामन्वयः, तथा च, असम्भाव्यकम्पनाश्रयमिदं मे हृदयम् । अन्वयः—अस्य, भूपतेः, यत्, तत्, ऊर्जितम्, अत्युग्रम् क्षात्रम्, तेजः, अक्षैः, दीव्यता, अनेन, तदा, नूनम्, तत्, अपि, हारितम् ॥ १३ ॥ यतः पञ्चभिर्ग्रामैः सन्धिं करोष्यतो जाने नास्य तेजोऽस्तीत्याह—यत्तदिति । अस्य भूपतेः = युधिष्ठिरस्य यत् तत् = प्रसिद्धम्, ऊर्जितम् = बलवत्, अत्युग्रम् = अतितीक्ष्णम्, क्षात्रं = क्षत्रियसम्बन्धि, तेजः = प्रतापः, अक्षैः = द्यूतैः, दीव्यता = क्रीडता, अनेन = युधिष्ठिरेण, तदा = तस्मिन् काले, नूनं = निश्चयम्, तत् = तेजः अपि हारितम् = विनाशितम् । पथ्यावक्त्रं छन्दः ॥ १३ ॥ भट्टिनी = यद्यपि कृताभिषेकातिरिक्तराजपत्नी, 'देवी कृताभिषेकायाम्, इतरासु तु भट्टिनी' इत्यमरात् भट्टिनीत्युच्यते तथापि लक्षण्या देव्यामपि भट्टिनीपदप्रयोगः । मुहुरुपचीयमानवाष्पपटलस्थगितनयना = पुनर्वर्द्धमानोष्माश्रुसमुदायाच्छन्ननेत्रा, प्रकार क्यों कर गौण हो गया है ? यदि सत्य है तो मेरा हृदय काँपने हुए के सदृश है ( पराङ्मुख होकर और स्थित होकर ) अच्छा वत्स, न तो तुमने कहा और न मैंने सुना [ अर्थात् सन्धि-बात की चर्चा न करो ] । महाराज का जो अत्यन्त उद्ग्र पराक्रमसम्पन्न क्षत्रियोचित तेज था यह निश्चय है कि द्यूत- क्रीडा करके उसे भी इन्होंने अपने हाथ से चले जाने दिया है ॥ १३ ॥ ( नेपथ्य में ) महारानी, धैर्य धारण करें, धैर्य्य धारण करें, कौरवों के सहजशत्रु कुमार भीमसेन आप -के क्रोध की शान्ति करेंगे । सहदेव—( नेपथ्य की ओर कान करके और देखकर मन ही मन ) अरे, क्यों, श्रीमती द्रौपदी आर्य के समीप चली आ रही हैं ! आँसुओं के अधिक भर जाने से नेत्र डबडबाये हैं । यह तो महान् कष्ट उपस्थित हुआ ।

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 42, कुल 355 में से · BharatKosha