वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 56, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३५ कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥ २२ ॥ ( प्रविश्य सम्भ्रान्तः । ) कञ्चुकी-- कुमार, एष खलु भगवान्वासुदेवः । ( सर्वे कृताञ्जलयः समुत्तिष्ठन्ति । ) भीमसेनः- ( ससम्भ्रमम् । ) क्वासौ भगवान् । कञ्चुकी-पाण्डवपक्षपातामर्षितेन सुयोधनेन संयमितुमारब्धः । ( सर्वे सम्भ्रमं नाटयन्ति । ) कोणाघातः स उच्यते ॥' इति लक्षणलक्षितेषु सत्सु, गर्जत्प्रलयघनघटान्योऽन्यसंघट्ट- चण्डः = गर्जन्तो ये प्रलयकालिकघनाः, तेषां घटा समुदायः, तस्या अन्योन्यसङ्घट्टः, परस्परसङ्घर्षः, तस्माच्चण्डः विकटः, कृष्णाक्रोधाग्रदूतः = द्रोपदीकोपप्रयमकथकः, कुरुकुलनिधनोत्पातनिर्घातवातः = कुरुवंशविनाशाशुभसूचकप्रचण्डवायुः, अस्मत्सिंहना- दप्रतिरसितसखः-अस्माकं यः सिंहनादः, केशरिंशब्दतुल्यशब्दः तस्य तत् , प्रतिरसितं प्रतिरवः, तस्य सखा 'राजाहुःसखिभ्यष्टच्' इति टच् प्रत्ययः । अयं, दुन्दुभिः = भेरी, 'भेरी स्त्री दुन्दुभिः पुमान्' इति विश्वः । केन कर्त्रा, ताडितः = आहतः, अत्र दूत इत्यत्र वात इत्यत्र चोत्प्रेक्षे । स्रग्धरा छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ २२ ॥ कञ्चुकी--शौविदल्लः, राज्ञां स्त्र्यगारे बहिरक्षाधिकारीत्यर्थः । पाण्डवपक्षपातामर्षितेन = पाण्डुपुत्रपक्षग्रहणक्रुद्धेन, संयमितुं = बद्धुम् । स्वार्थे- णिच् , ततस्तुमुन्प्रत्ययः । निकलने वाले भीषण निर्घोष को भी जीत लेती है। यह ( नक्कारा ) द्रौपदी के अथवा प्रलयकाल की रात्रि के क्रोध का सूचक है इतना ही नहीं, किन्तु सुयोधन के नाश के लिए उत्पातकालीन झञ्झावात की तरह है और हम लोगों के सिंहनाद की भाँति इसमें से ध्वनि निकलती है ॥ २२ ॥ ( प्रवेश कर घबड़ाया हुआ ) कञ्चुकी-कुमार, ये भगवान वासुदेव...... ( सब लोग हाथ जो कर खड़े हो जाते हैं ) भीमसेन - अत्यन्त आतुर होकर कहाँ, कहाँ हैं भगवान् वासुदेव ? कञ्चुकी-पाण्डवों के पक्षपात से क्रुद्ध होकर सुयोधन भगवान् वासुदेव को पकड़ने के लिये उद्यत हुआ है । ( सब व्याकुल हो जाते हैं )