वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 47, कुल 355 में से
संदर्भ में पढ़ें२६ वेणीसंहारं नाटकं भीमसेनः—किमिति । सहदेवः—इन्द्रप्रस्थं वृकप्रस्थं जयन्तं वारणावतम् । प्रयच्छ चतुरो ग्रामान्कञ्चिदेकं च पञ्चमम् ॥ १६ ॥ भीमसेनः—ततः किम् । सहदेवः—तदेवमनया प्रतिनामग्रामप्रार्थनया पञ्चमस्य चाकीर्तनाद्विष- भोजनजतुगृहदाहद्यूतसभाद्यपकारस्थानोद्घाटनमेवेदं मन्ये । अन्वयः—इन्द्रप्रस्थम्, वृकप्रस्थम्, जयन्तम् वारणावतम्, चतुरः, ग्रामान्, प्रयच्छ, कञ्चित्, एकम्, पञ्चमम्, च, ( प्रयच्छ ) ॥ १६ ॥ युधिष्ठिरप्रेषितसन्देशमेवाह—इन्द्रप्रस्थमिति । इन्द्रप्रस्थं=खाण्डवप्रस्थम्, ‘हस्तिनापुरान्निर्वासितो युधिष्ठिरः स्वनिवासायेन्द्रप्रस्थनामकं नगरं रचयामास’ एतेन निर्वासनरूपोऽपकारः सूचितः । वृकप्रस्थम् = भीमस्य वृकोदरनामप्राप्ति-स्थानम् अत्रैव दुर्योधनादिभिः विषदानेन मदमत्तोऽकारि, एतेन विषदानरूपोऽपकारः सूचितः । जयन्तम् = द्यूतक्रीडास्थानम्, ‘अत्रैव द्यूतेन राज्यादीनपहृत्य वनवासो दत्तः, एतेन छलेन राज्याद्यपहरणरूपोऽपकारः सूचितः । वारणावतम्–लाक्षागृहदाहस्थानम् ‘लाक्षागृहे निवसति युधिष्ठिरे दुर्योधनाज्ञया पुरोचनेन वह्नौ प्रज्वालिते कष्टेन तस्मान्निर्गतो युधिष्ठिरः’ एतेन प्राणहरणोपायरूपोऽपकारः सूचितः । चतुरः=उक्तनाम- निर्दिष्टान् चतुःसंख्याकान्, ग्रामान् = संवसथान्, ‘सभो संवसथग्रामौ’ इत्यमरः । प्रयच्छ=देहि, कञ्चित्=नाम्नाऽनिर्दिष्टम् एकं, पञ्चमं, च । चतुरपकारसूचनानन्तरम्, नाम्नाऽनिर्दिष्टस्य ‘पञ्च’ पञ्चत्वं भावप्रधाननिर्देशः, माति दधाति पञ्चम इत्येवं निष्पन्नस्य पञ्चमस्य कथनात् मरणप्रापकयुद्धस्थानं सूचितम् । पथ्यावक्त्र- च्छन्दः ॥ १६ ॥ तात्पर्यानभिज्ञो भीमसेन आह—ततः किमिति । सहदेवस्तात्पर्यं स्पष्टतयाऽऽह—तदेवमिति । प्रतिनामग्रामप्रार्थनया = तत्तन्नाम- निर्देशपूर्वकग्रामयाचनेन, पञ्चमस्य च, अकीर्तनात् = नामाकथनात् । भीम—क्या ? सहदेव—इन्द्रप्रस्थ, वृकप्रस्थ, जयन्त और वारणावत इन चार ग्रामों को और पाचवाँ कोई एक जो इच्छा हो दीजिये ॥ १६ ॥ भीम—तो इससे क्या ? ( अर्थात् इसमें क्या रहस्य है ? ) । सहदेव—इस प्रकार चार ग्रामों का नाम लेकर तथा पाचवें का नाम न लेकर प्रार्थना करने से मुझे विदित होता है, ‘महाराज ने विषप्रदान, लाक्षानिर्मित भवन के भस्मीकरण और कपटपाश इत्यादि अपकारों की स्मृति कराई है’ ।