वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
३० वेणीसंहारं नाटकं भीमसेनः—कि नामास्मादप्यधिकतरम् । बुद्धिमत्तिके, कथय । कौरव्यवंशदावेऽस्मिन्क एव शलभायते । मुक्तवेणीं स्पृशन्नेनां कृष्णां धूमशिखामिव ॥ १९ ॥ चेटीः—सुणादु कुमालो । अज्ज क्खु देवी अम्बासहिदा सुभद्दाप्व- मुहेण सवत्तिवग्गेण परिवुदा अज्जाए गन्धारीए पादवन्दणं कादुं गदा। ( शृणोतु कुमारः। अद्य खलु देव्यम्बासहिता सुभद्राप्रमुखेन सपत्नीवर्गेण परिवृता आर्याया गान्धार्याः पादवन्दनं कर्तुं गता । ) भीमसेनः—युक्तमेतत् । वन्द्याः खलु गुरवः । ततस्ततः । अन्वयः —कौरव्यवंशदावे, अस्मिन्, ( कृष्णां ) धूमशिखाम्, इव, बद्धवेणीम्, एनाम्, कृष्णाम्, स्पृशन्, कः, एषः, शलभायते ॥ १९ ॥ कौरव्येति । कौरव्यवंशदावे = कौरव्यः वंश इव । उपमितसमासः । मानसराज हंसवद्, वंशस्य श्लेषेण निर्देशः, एकस्य कुलमर्थः । अन्यस्य वेणुः । तस्मिन् यो दावः दवाग्निः, तस्मिन् कौरव्यवंशदावे, अस्मिन् = मयि, भीमे, कृष्णां नीलाम्, कृष्णा तु नील्यां द्रौपद्यां पिप्पलीद्राक्षयोरपि इत्यमरः । धूमशिखाम् = धूमकेतुम्, इव, मुक्तवेणीम् =अबद्धकेशवेशाम्, एनाम्=उपस्थिताम्, कृष्णाम्=द्रौपदीम्, स्पृशन्=छुपन् एषः, शलभायते = पतङ्गायते, पतङ्ग इवाचरतीत्यर्थः । कौरव्यवंशेत्यत्र लुप्तोपमा कौरव्यवंशदावेत्यत्र रूपकं व्यङ्ग्योपमा, एतेषामङ्गाङ्गिभावात् सङ्करः । पध्यावक्त्रं छन्दः ॥ १६ ॥ सुभद्राप्रमुखेन = कृष्णस्वसृप्रधानेन, सपत्नीवर्गेण = समानः पतिर्यस्याः सा सपत्नी, तस्याः वर्गेण समुदायेन, परिवृता = युक्ता, अम्बासहिता =कुन्तीसंयुक्ता, देवी, आर्यायाः, गान्धार्याः=धृतराष्ट्रपत्न्याः पादवन्दनम्=चरणवन्दनां, कर्तुम्, अद्य, खलु, गता, इत्यन्वयः । खल्विति वाक्यालङ्कारे । ततस्ततः = तदनन्तरम् । भीमसेन—क्यों ! बुद्धिमत्तिके, इससे भी बढ़कर ! तो कहो, कहो । बांस वृक्ष के सदृश कुरुवंश के इस दावाग्नि में धूमशिखा के सदृश बद्धकेश-पाशा पाञ्चाली से विरोध कर कौन व्यक्ति फतिंगे की भाँति जल भुनकर विनष्ट होना चाहता है ॥ १९ ॥ चेटी—कुमार सुनें । आज महारानी माता के साथ सुभद्रादि सपत्नियों को लेकर पूज्या गान्धारी ( माता ) के चरणों में नमस्कारार्थ गई थीं । भीमसेन—यह तो उचित ही है, बड़े लोग अभिवन्द्य हैं ही—तो फिर !
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३१ चेटी—तदो पडिणिवुत्तमाणा भाणुमदीए देवी दिट्ठा । (ततः प्रतिनिवर्त- माना भानुमत्या देवी दृष्टा ।) भीमसेनः—(सक्रोधम् ) आः, शत्रोर्भार्यया दृष्टा । हन्त, स्थानं क्रोधस्य देव्याः । ततस्ततः । चेटी—तदो ताए देवी पेक्खिअ सहोजणदिण्णदिट्ठिए सगव्वं ईसि विहसिअ भणिअं । अइ जण्णसेणि, कसि तुम्हाणं अज्जवि केसा ण संजमीअन्ति । (ततस्तया देवीं प्रेक्ष्य सखीजनदत्तदृष्ट्या सगर्वमीषद्विहस्य भणितम् । अयि याज्ञसेनि, कस्माद्युष्माकमद्यापि केशा न संयम्यन्ते ।) भीमसेनः—सहदेव, श्रुतम् । सहदेवः—आर्य, उचितमेवैतत्तस्याः । दुर्योधनकलत्रं हि सा पश्य । प्रतिनिवर्तमाना = प्रत्यागच्छन्ती, भानुमत्या = दुर्योधनपत्न्या । हन्त, इति विषादे । विषादोऽयमित्यर्थः 'हन्त हर्षेऽनुकम्पायां वाक्यारम्भविषाद योरित्यमरः । सखीजनदत्तदृष्ट्या = सखीजने, आलिजने दत्ता दृष्टिः यया, तया । सगर्वम् = साहङ्कारम् । भणितम् = निगदितम् । याज्ञसेनि = द्रौपदि । अद्यापि = इदानीमपि । संयम्यन्ते = बध्यन्ते । एतत् = पूर्वोक्तवचनम्, उचितमेव = युक्तमेव, एवेत्यवधारणे । तस्याः = भानु- मत्याः, इत्यन्वयः । हि = यतः, सा = भानुमती, दुर्योधनकलत्रम् = दुर्योधनस्य स्त्री । दुर्योधनकलत्रमित्यनेन यथा दुर्योधनो धृष्टस्तथा तस्य भार्यापीति सूचितम् । चेटी—उसी समय लौटती हुई महारानी को भानुमती ने देखा । भीमसेन—(क्रोधावेश में होकर ) अरे ! शत्रु की स्त्री ने देखा ! दुःख ! तब तो देवी का क्रोध अवसरोचित है । अच्छा फिर क्या हुआ ? चेटी—इसके अनन्तर उसने (भानुमती ने) महारानी की ओर देखकर सखियों को संकेत किया और फिर वह थोड़ी मुसकराती हुई अभिमान से ऐंठकर बोली । अये ! महारानी द्रौपदी, (सुना जाता है पाँच गाँव लेकर सन्धि की बातचीत की गई है) अब भी आपने अपने केशपाशों का संयमन (बाँधना) नहीं किया है । भीमसेन—सहदेव, सुना । सहदेव—आर्य, यह तो उसके लिये उचित ही है अन्ततोगत्वा दुर्योधन ही की स्त्री है न, देखिये ।
३२ वेणीसंहारं नाटकं स्त्रीणां हि साहचर्याद्भवन्ति चेतांसि भर्तृसदृशानि । मधुरापि हि मूर्च्छयते विषविटपिसमाश्रिता वल्ली ॥ २० ॥ भीमसेनः—बुद्धिमत्तिके ततो देव्या किमभिहितम् । चेटी—कुमाल, जइ पडिहीणं मम वयणं भवे तदो देवी भणादि । ( कुमार, यदि परिहीनं मम वचनं भवेत्तदा देवी भणति । ) भीमसेनः—किं पुनरभिहितं भवत्या । चेटी—तदा मए परिकुव्विअ भणिअ । अइ भाणुमदि तुम्हाणं अमुक्केसु केसहत्थेसु कध अम्हाणं देवाए केसा संजमीअन्ति।त्ति । ( ततो मया परिकुप्य भणितम् । अयि भानुमति, युष्माकममुक्तेषु केशहस्तेषु कथमस्माकं देव्याः केशाः संयम्यन्त इति । ) अन्वयः—साहचर्यात्, स्त्रीणाम्, चेतांसि, भर्तृसदृशानि, भवन्ति, हि, विषविट- पिसमाश्रिता, मधुरा, अपि वल्ली, मूर्च्छयते, ( जनम् ) ॥ २० ॥ पूर्वोक्तेऽर्थे प्रमाणमाह—स्त्रीणामिति । साहचर्यात् = सहवासात्, स्त्रीणां = नारीणाम्, चेतांसि = चित्तानि, भर्तृसदृशानि = पतितुल्यानि, भवन्ति । हि = अवधारणे । 'हि हेताववधारणे' इत्यमरः । हि = यतः, विषविटपिसमाश्रिता = विष वृक्षाश्रिता, मधुरा = मधुररसा, अपि, वल्ली = लता, 'वल्ली तु व्रततिर्लता' इत्यमरः मूर्च्छयते = मोहयति, जनमिति शेषः । आर्याच्छन्दः ॥ २० ॥ ॰ बुद्धिमत्तिके = बुद्धिमत्तिका नाम्नी चेटी तत्सम्बोधने । अभिहितम् = उक्तम् । ॰ परिहीनं = विनष्टम्, मम् मुखादनिःसृतमित्यर्थः । देवी = द्रौपदी, भणति = गदति, गदेदित्यर्थः । परिकुप्य = परिक्रुध्य, भणितम् = उक्तम् । अमुक्तेषु = बद्धेषु, केशहस्तेषु = केशव्रा- तेषु 'हस्तः करे करिकरे सप्रकाष्ठकरेष्वपि च । ऋक्षे केशात्परा व्राते' इत्यमरः । कथ=केन प्रकारेण, सयम्बन्ते = बध्यन्ते । पति के साथमें रहने के कारण स्त्रियोंका स्वभाव भी पतिदेव के सदृश ही होता है क्योंकि विष-वृक्ष में उलझी हुई लता मीठी होती हुई भी मूर्च्छाकारी गुणों से युक्त हो जाती है ॥२०॥ भीमसेन—बुद्धिमत्तिके ! पुनः देवी ने क्या समाधान किया ? चेटी—कुमार, यदि मैं नहीं बोलती तो महारानी अवश्य उत्तर देतीं ( अर्थात् मेरे साथ रहते हुए महारानी को समाधान देने की कोई आवश्यकता नहीं ) । भीमसेन—तुमने फिर क्या कहा ? चेटी—कुमार मैंने इस प्रकार कहा, ऐ भानुमती, तुम लोगों के केश तो अभी बँधे हुए हैं तो फिर मेरी महारानी के केश कैसे बँध सकेंगे ?
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३३ भीमसेनः—( सपरितोषम् । ) साधु बुद्धिमत्तिके, साधु। तदभिहितं यद- स्मत्परिजनोचितम् । ( सधीरमासनादुत्तिष्ठन् ) भवति पाञ्चालराजतनये, श्रूयताम्। अचिरेणैव कालेन— चञ्चद्भुजभ्रमितचण्डगदाभिघात- सञ्चूर्णितोरुयुगलस्य सुयोधनस्य । स्त्यानापविद्धघनशोणितशोणपाणि- रुत्तंसयिष्यति कचांस्तव देवि भीमः ॥ २१ ॥ द्रौपदी—किं णाह, दुक्करं तुए परिकुविदेण । सव्वहा अणुगेण्हन्तु अस्मत्परिजनोचितम् = आस्माकजनसमुचितम् । अचिरेण = शीघ्रेण । अन्वयः—( हे ) देवि, चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य, सुयोधनस्य, स्त्यानापविद्धघनशोणितशोणपाणिः, भीमः, तव, कचान्, उत्तंस- यिष्यति ॥ २१ ॥ शीघ्रमेव शत्रून् विजित्य तव कचान् भन्त्स्यामीत्याह—चञ्चदिति । ( हे ) देवि = महिषि द्रौपदि । चञ्चद्भुजभ्रमितचण्डगदाभिघातसञ्चूर्णितोरुयुगलस्य = चञ्च- द्भ्यां चलद्भ्यां भुजाभ्यां दोर्भ्यां, भ्रमिता या चण्डगदा भयावहशस्त्रविशेषः, तस्या अभिघातेन हननेन, सञ्चूर्णितम्, ऊरुयुगलम् सक्थिद्वयम्, यस्य, तस्य । सुयोधनस्य = दुर्योधनस्य, स्त्यानापविद्धघनशोणितशोणपाणिः = स्त्यानं क्लिन्नम् , अपविद्धम्, आविद्धम्, घनं निबिडं यच्छोणितं रुधिरं, तेन शोणः रक्तः, पाणिः हस्तः यस्य सः । भीमः = अहं, तव, कचान् = केशान् , उत्तंसयिष्यति = अवमूर्षयिष्यति, तसु भूषाया- मिति निष्पन्नः । अत्र दुर्योधनोरुसञ्चूर्णनात्मकयुद्धवृत्तान्तरूपकाव्यार्थस्य निश्चयेनोप- स्थितेः परिन्यासाख्यं मुखाङ्गम् । तदुक्तं दर्पणे—‘तन्निष्पत्तिः परिन्यासः' इति । निष्पत्तिः निश्चयेनोपस्थितिः । अत्र चञ्चद्भुजभ्रमितचण्डेत्यत्र वृत्त्यनुप्रासः शोणित- शोणेत्यत्र छेकानुप्रासोऽलङ्कारः । वसन्ततिलका छन्दः ॥ २१ ॥ भीम—( सन्तुष्ट होकर ) ठीक बुद्धिमत्तिके ठीक, तुमने वही कहा जो हम लोगों के भृत्यों को कहना चाहिये। (व्याकुलाहट के साथ उठते हुए) ऐ पाञ्चालपुत्रि, विषादसे कोई लाभ नहीं। अधिक मैं क्या कहूँ बहुत शीघ्र जो करूँगा उसे सुनिये । हे देवि ! ( यह ) भीम अपने चपल भुजदण्डों से घुमाये हुए भीषण गदा के प्रहार से सुयोधन के जंघों को रौंदकर निकाले गये खूब गाढ़े रक्त से निश्चल हाथों को रँगता हुआ तुम्हारे केशकलापों को सँवारेगा ॥ २१ ॥ द्रौपदी—स्वामिन् आपके क्रुद्ध हो जाने पर कौन कार्य दुष्कर है । (अर्थात् जिसे ३ वे०
३४ वेणीसंहारं नाटकं एदं ववसिदं भादरो । (किं नाथ, दुष्करं त्वया परिकुपितेन । सर्वथाऽनुगृह्ण- न्त्वेतद्व्यवसितं ते भ्रातरः । ) सहदेवः—अनुगृहीतमेतदस्माभिः । ( नेपथ्ये महान्कलकलः । सर्वे सविस्मयमाकर्णयन्ति । ) भीमसेनः— मन्थाव्यस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः कोणाघातेषु गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः । परिकुपितेन, त्वया किं, दुष्करम्—दुःसाध्यम्, न किमपीत्यर्थः । ते, भ्रातरः, एतद्व्यवसितम् = इमं व्यवसायम्, अनुगृह्णन्तु = अनुमन्यन्ताम् । कलकलः = आकस्मिकोऽव्यक्तशब्दः । अन्वयः—मन्थाव्यस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः, कोणाघातेषु, ( सत्सु ) गर्जत्प्रलयघनघटान्योऽन्यसंघट्टचण्डः, कृष्णाक्रोधाग्रदूतः, कुरुकुलनिधनोत्पात- निर्घातवातः, अस्मत्सिंहनादप्रतिरसितसखः, अयम् , दुन्दुभिः, केन ताडितः ॥ मन्थाव्यस्तेति । मन्थाव्यस्तार्णवाम्भःप्लुतकुहरचलन्मन्दरध्वानधीरः = मन्थः, मन्थनदण्डविशेषः, तेन आयस्तं चालितम् अर्णवाम्भः समुद्रजलं तेन प्लुतं, संलग्नं, कुहरं, मध्यं यस्य, तस्य चलतः, मन्दरस्य मन्दरनामकशैलस्य यः ध्वनिः, शब्दः तद्वद्धीरः, गम्भीरः । अस्य दुन्दुभिरित्यत्रान्वयः । एवमग्रिमस्यापि प्रथमा- न्तस्य । कोणाघातेषु = ‘ढक्काशतसहस्राणि भेरीशतशतानि च । एकदा यत्र हन्यन्ते आप न कर सकें ) ईश्वर करे आपके इस विचार से आपका भ्रातृवर्ग सहमत हो जाय । सहदेव—हम लोग सहमत हैं । भीम—मन्थन-दण्ड (मंदराचल) से प्रक्षिप्त समुद्र जल से पूर्ण कन्दरासहित चलते हुए मन्दराचल की तरह गम्भीर घोषकारी, कोणाघात होने पर ( सौ हजार डमरू और दस हजार नगाड़े एक साथ बजते हैं तो उसे कोणाघात कहते हैं ) प्रलयकाल के गर्जते हुए मेघों की घटाओं के परस्पर टक्कर खाने से भीषण शब्दकारी द्रौपदी के अथवा प्रलय रात्रि के अग्रदूत के समान कौरवाधिनाथ [ सुयोधन ] के नाशसूचक उत्पातसे उपस्थित झंझावात की भाँति हम लोगों के सिंहनाद के सदृश इस नगाड़े को किसने ठोंका है । ( अथवा ) अरे इस नक्कारे को किसने बजाया ? इसकी ध्वनि समुद्र-मंथन के समय मन्थन-दण्ड से प्रक्षिप्त जल से परिपूरित कन्दरायुक्त मन्दराचल के भ्रमण-कालीन गम्भीर ध्वनि की तरह है, प्रलय काल के गर्जते हुए मेघ-मालाओं के परस्पर संघट्टित होने पर
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३५ कृष्णाक्रोधाग्रदूतः कुरुकुलनिधनोत्पातनिर्घातवातः केनास्मत्सिंहनादप्रतिरसितसखो दुन्दुभिस्ताडितोऽयम् ॥ २२ ॥ ( प्रविश्य सम्भ्रान्तः । ) कञ्चुकी-- कुमार, एष खलु भगवान्वासुदेवः । ( सर्वे कृताञ्जलयः समुत्तिष्ठन्ति । ) भीमसेनः- ( ससम्भ्रमम् । ) क्वासौ भगवान् । कञ्चुकी-पाण्डवपक्षपातामर्षितेन सुयोधनेन संयमितुमारब्धः । ( सर्वे सम्भ्रमं नाटयन्ति । ) कोणाघातः स उच्यते ॥' इति लक्षणलक्षितेषु सत्सु, गर्जत्प्रलयघनघटान्योऽन्यसंघट्ट- चण्डः = गर्जन्तो ये प्रलयकालिकघनाः, तेषां घटा समुदायः, तस्या अन्योन्यसङ्घट्टः, परस्परसङ्घर्षः, तस्माच्चण्डः विकटः, कृष्णाक्रोधाग्रदूतः = द्रोपदीकोपप्रयमकथकः, कुरुकुलनिधनोत्पातनिर्घातवातः = कुरुवंशविनाशाशुभसूचकप्रचण्डवायुः, अस्मत्सिंहना- दप्रतिरसितसखः-अस्माकं यः सिंहनादः, केशरिंशब्दतुल्यशब्दः तस्य तत् , प्रतिरसितं प्रतिरवः, तस्य सखा 'राजाहुःसखिभ्यष्टच्' इति टच् प्रत्ययः । अयं, दुन्दुभिः = भेरी, 'भेरी स्त्री दुन्दुभिः पुमान्' इति विश्वः । केन कर्त्रा, ताडितः = आहतः, अत्र दूत इत्यत्र वात इत्यत्र चोत्प्रेक्षे । स्रग्धरा छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ २२ ॥ कञ्चुकी--शौविदल्लः, राज्ञां स्त्र्यगारे बहिरक्षाधिकारीत्यर्थः । पाण्डवपक्षपातामर्षितेन = पाण्डुपुत्रपक्षग्रहणक्रुद्धेन, संयमितुं = बद्धुम् । स्वार्थे- णिच् , ततस्तुमुन्प्रत्ययः । निकलने वाले भीषण निर्घोष को भी जीत लेती है। यह ( नक्कारा ) द्रौपदी के अथवा प्रलयकाल की रात्रि के क्रोध का सूचक है इतना ही नहीं, किन्तु सुयोधन के नाश के लिए उत्पातकालीन झञ्झावात की तरह है और हम लोगों के सिंहनाद की भाँति इसमें से ध्वनि निकलती है ॥ २२ ॥ ( प्रवेश कर घबड़ाया हुआ ) कञ्चुकी-कुमार, ये भगवान वासुदेव...... ( सब लोग हाथ जो कर खड़े हो जाते हैं ) भीमसेन - अत्यन्त आतुर होकर कहाँ, कहाँ हैं भगवान् वासुदेव ? कञ्चुकी-पाण्डवों के पक्षपात से क्रुद्ध होकर सुयोधन भगवान् वासुदेव को पकड़ने के लिये उद्यत हुआ है । ( सब व्याकुल हो जाते हैं )
३६ वेणीसंहारं नाटकं
भीमसेनः—किं संयतः । कञ्चुकी—नहि नहि, संयमितुमारब्धः । भीमसेनः—किं कृतं देवेन । कञ्चुकी--ततः स महात्मा दर्शितविश्वरूपतेजःसम्पातमूर्च्छितमवधूय कुरुकुलमस्मच्छिविरसन्निवेशमनुप्राप्तः कुमारमविलम्बितं द्रष्टुमिच्छति । भीमसेनः—( सोपहासम् । ) किं नाम दुरात्मा सुयोधनो भगवन्तं संय- मितुमिच्छति । ( आकाशे दत्तदृष्टिः । ) आः दुरात्मन्कुरुकुलपांसुल, एवमति- क्रान्तमर्यादे त्वयि निमित्तमात्रेण पाण्डवक्रोधेन भवितव्यम् । सहदेवः—आर्य, किमसौ दुरात्मा सुयोधनहतको वासुदेवमपि भगवन्तं स्वरूपेण न जानाति । भीमसेनः—वत्स, मूढः खल्वयं दुरात्मा कथं जानातु ! पश्य ।
दर्शितविश्वरूपतेजःसम्पातमूर्च्छितम् = दर्शितं यद्, विश्वरूपं विराट्शरीरम्, तस्य यत्तेजः तस्य यः सम्पातः, मेलनम्, तेन मूर्च्छितम्, कुरुकुलं दुर्योधनादीन् , अवधूय = तिरस्कृत्य । कुरुकुलपांसुल = कुरुकुलपापिष्ठ । स्वरूपेण = ईश्वररूपेण ।
भीमसेन—क्या पकड़ लिया ? कञ्चुकी—नहीं, पकड़ने के लिये तय्यार हुआ । भीम—भगवान ने क्या किया ? कञ्चुकी—वे महात्मा योगीश्वर कृष्ण अपने विश्वरूप के तेजपुञ्ज की चकाचौंध से कौरवों को मूर्च्छित तथा तिरस्कृत करके हम लोगों के शिविर पर चले आये हैं और आपको शीघ्र ही देखना चाहते हैं । भीम—( हँसता हुआ ) क्या दुरात्मा सुयोधन भगवान् वासुदेव को बन्धनमें डालना चाहता है ( आकाश की ओर अवलोकन कर ) अरे ! दुष्ट, कुरुकुलाङ्गार ! इस प्रकार तूने अपनी मर्यादा का उच्छेद कर दिया हैं कि तुम्हारे नाशार्थ पाण्डवों का क्रोध तो निमित्त कारण मात्र होगा ( अर्थात् तेरा पाप ही तुझे चाट जायगा ) । सहदेव—आर्य, क्या यह दुराचारी सुयोधन भगवान् वासुदेव के स्वरूप से परिचित नहीं है ? भीम—प्रिय भ्रातः ! वह मूढ़ पापात्मा कैसे जान सकता है, देखो :—
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३७ आत्मारामैर्विहितरतयो निर्विकल्पे समाधौ ज्ञानोत्सेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥ २३ ॥ आर्य जयन्धर, किमिदानीमध्यवस्यति गुरुः । अन्वयः—आत्मारामैः, निर्विकल्पे, समाधौ विहितरतयः, ज्ञानोत्सेकात्, विघ- टिततमोग्रन्थयः, सत्त्वनिष्ठाः, तमसां, ज्योतिषां, वा, परस्तात्, यम्, कम्, अपि, वीक्षन्ते, तम्, पुराणम्, अमुम्, मोहान्धः, अयम्, कथम्, वेत्ति ॥ २३ ॥ वासुदेवो न साधारणमनुष्यज्ञानविषय ईश्वरत्वेन भवितुमर्हतीत्याह—आत्मा- रामा इति। आत्मारामैः = आ सम्यक् रमते अस्मिन्निति आरामः, रमणस्थानम्, आत्मा आरामः येषां ते आत्मारामैः, आत्मनिष्ठाः, योगिन इत्यर्थः । अथवा आत्मनि आ समन्तात् रमन्त इत्यात्मारामैः, निर्विकल्पे = विकल्पो विकल्पना मिथ्याज्ञान- मित्यर्थः । स निर्गतो यस्मात्, तस्मिन्, समाधौ = ध्यातृध्यानपरित्यागपूर्वकध्येय- मात्रविषयकज्ञाने, अथवा ध्यानोत्तरकालिकयोगाङ्गविशेषे, (च) विहितरतयः = कृता- नुरागाः, ज्ञानोत्सेकात् = ज्ञानस्योत्सेको विशुद्धता ततः तत्त्वज्ञानादित्यर्थः । विघटित- तमोग्रन्थयः = विघटिताः, दूरीकृताः तमोग्रन्थयः, तूलाविद्या येः ते, एतेन रजस्त- मोराहित्यं सूचितम् । तमसां = अन्धकाराणाम् , ज्योतिषां = तेजसाम्, वा, पर- स्तात् = भिन्नम्, तदुक्तं श्रुतौ—'तस्य भासा सर्वमिदं विभाति' । इति । यम् = परमात्मानं, कमपि = अनिर्वचनीयम्, वीक्षन्ते = पश्यन्ति, पुराणम् = आद्यन्तहीनम्, तम्, देवं = परं ब्रह्म, अमुं = कृष्णम्, मोहान्धः = तमोगुणावृत्तः, अयं = दुर्योधनः, कथं, वेत्ति = जानाति, न कथमपीत्यर्थः, एतेन योगिनामेव गम्योऽयमिति सूचि- तम् । मन्दाक्रान्ता छन्दः । मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्ममिति लक्षणात् ॥ २३ ॥ अध्यवस्यति = सम्पादयति । कल्पनातीत समाधि लगा कर आत्मारूपी उपवन में पूर्णतया अनुरक्त, ज्ञान के आधिक्य से तमोगुण की ग्रन्थियों के विच्छेदक सत्त्वगुणालम्बकर्त्ता योगीजन अन्धकार से परे अथवा प्रकाश से परे जिस किसी को देख पाते हैं, उस पुराण पुरुष को मूढ सुयोधन किस प्रकार समझ सकता है ॥ २३ ॥ आर्य जयन्धर, अब महाराज क्या करना चाहते हैं ?
[Page-header: ३८ | वेणीसंहारं नाटकं]
कञ्चुकी—स्वयमेव गत्वा महाराजस्याध्यवसितं ज्ञास्यति कुमारः। ( इति निष्क्रान्तः । ) ( नेपथ्ये कलकलान्तरम् । ) भो भो द्रुपदविराटवृष्ण्यन्धकसहदेवप्रभृतयोऽस्मदक्षौहिणीपतयः कौरव- चमूप्रधानयोधाश्च, शृण्वन्तु भवन्तः । यत्सत्यव्रतभङ्गभीरुमनसा यत्नेन मन्दीकृतं यद्विस्मर्तुमपाहितं शमवता शान्तिं कुलस्येच्छता । तद्यूतारणिसम्भूतं नृपसुताकेशाम्बराकर्षणैः क्रोधज्योतिरिदं महत्कुरुवने यौधिष्ठिरं जृम्भते ॥ २४ ॥ अन्वयः—सत्यव्रतभङ्गभीरुमनसा, ( कर्त्रा ) यत् , यत्नेन मन्दीकृतम्, कुलस्य, शान्तिम्, इच्छता, शमवता, यत्, विस्मर्तुम् अपि, ईहितम्, द्यूतारणिसम्भूतम्, तत्, यौधिष्ठिरम्, इदम्, क्रोधज्योतिः, नृपसुताकेशाम्बराकर्षणैः, महत्, ( सत् ) कुरुवने, जृम्भते ॥ २४ ॥ यत्सत्यव्रतेति । सत्यव्रतभङ्गभीरुमनसा = सत्यमेव व्रतं सत्यव्रतं तस्य भङ्गः, विच्छेदः तस्मात् भीरुः भीतम् मनः यस्य, तेन, यत् = क्रोधज्योतिः, यत्नेन=आया- सेन, मन्दीकृतम् = अल्पीकृतम् न तु विनाशितमिति भावः । क्रोधमन्दो यदि न स्यात्तदा सत्यभङ्गः स्यादित्येवं भीरुरिति भावः, कुलस्य = वंशस्य, शान्ति=शमनम्, इच्छता = अभिलषता, शमवता = शान्तेन, मयेत्यर्थः । यद्, विस्मर्तुम् = विस्मृतिं कर्तुम् , अपि, ईहितम् = चेष्टितम्, द्यूतारणिसम्भूतं = द्यूतमरणिः वह्निमन्थनदारु इव तेनोत्पन्नं, तत्, यौधिष्ठिरं = युधिष्ठिरे भवम्, इदम् क्रोधज्योतिः = ज्योतिरिव क्रोधः, उपमितसमासः । नृपसुताकेशाम्बराकर्षणैः = द्रौपदीकचवस्त्राकर्षणैः, महत् = कञ्चुकी—स्वयं कुमार महाराज के यहाँ जाकर उनके कर्तव्य को समझ सकते हैं । ( चला गया ) ( नेपथ्य में कल कल ध्वनि के पश्चात् ) अये, अये ! द्रुपद, विराट, वृष्णि, अन्धक और सहदेव प्रभृति मेरी अक्षौहिणो सेना के नायकों तथा कौरवसेना के अग्रगण्य शूरवीरों, आप लोग ध्यान दें—जिस क्रोध की ज्वाला को सत्यव्रत-परायण अपने व्रतभंग की आशंका से बड़े परिश्रम के साथ मैंने मंद किया था, जिसको इस शान्ति के पुजारी ने कुल के कल्याण की कामना से भूल जाने का निश्चय कर लिया था वह द्यूतरूपी अरणी नाम के काष्ठ में अन्तर्हित मुझ युधिष्ठिर के क्रोध की ज्योति, द्रौपदी के केश और वस्त्रों के आकर्षण से कौरववन में भड़क रही है ॥ २४ ॥
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३९ भीमसेनः—( आकर्ण्य । सहर्षम् ) जृम्भतां जृम्भतामप्रतिहतप्रसरमार्यस्य क्रोधज्योतिः । द्रौपदी—णाह, किं दाणीं एसो पलअजलहरत्थणिदमंसलोद्धोसो क्खणे क्खणे समरदुन्दुही ताडीयदि । ( नाथ, किमिदानीमेष प्रलयजलधरस्तनितमांस- लोद्घोषः क्षणे क्षणे समरदुन्दुभिस्ताड्यते । ) भीमसेनः—देवि, किमन्यत् । यज्ञः प्रवर्त्तते । द्रौपदी—( सविस्मयम् । ) को एसो जण्णो । ( क एष यज्ञः । ) भीमसेनः—रणयज्ञः तथाहि— चत्वारो वयमृत्विजः स भगवान्कर्मोपदेष्टा हरिः । समृद्धं सत् कुरुवने = वन इव कुरुराजे, जृम्भते = प्रकाशते, अत्र न कुत्रापि रूपक- समासः विस्मरणकेशाम्बराकर्षणकृतमहत्त्वयोः ज्योतिष्सम्बन्धादनन्वयापत्तेः । अत्र पूर्वार्द्धे हेतोः पदार्थत्वेन काव्यलिङ्गद्वयम्, उत्तरार्द्धे द्यूतारणीत्यत्र क्रोधज्योतिरित्यत्र कुरुवन इत्यत्र च लुप्तोपमात्रयम् । शार्दूलविक्रीडितं छन्दः ॥ २४ ॥ प्रलयेति—प्रलयकालिकमेघस्य मन्थरस्तनितं, धीरगर्जितम् तद्वन्मांसलः बलवान् तद्घोषः शब्दः यस्य सः । समरदुन्दुभिः = युद्धकालिकभेरी । अन्वयः—वयम्, चत्वारः, ऋत्विजः सः, भगवान्, हरिः, कर्मोपदेष्टा, नरपतिः, सङ्ग्रामाध्वरदीक्षितः, पत्नी, गृहीतव्रता, कौरव्याः, पशवः, फलम्, प्रियापरिभवक्ले- शोपशान्तिः, राजन्योपनिमन्त्रणाय, यशोदुन्दुभिः, स्फीतम्, रसति ॥ २५ ॥ सङ्ग्रामं यज्ञरूपेण वर्णयति—चत्वार इति । वयं = भीमादयः, चत्वारः = चतुः- संख्याकाः, ऋत्विजः = वृताः सन्तो यज्ञकर्त्तारः, हरिः = कृष्णः, स भगवान्, कर्मो- भीमसेन—(सुनकर हर्ष और क्रोध के साथ) भड़क उठे ! भड़क उठे ! महाराज के क्रोध की ज्वाला बिना किसी अवरोध के भली भाँति बढ़े । द्रौपदी—स्वामिन्, इस समय भीषण निर्घोष के कारण असह्य, प्रलयकालिक मेघ- गर्जन के सदृश गर्जनकारिणी यह रणभेरी ( नगाड़ा ) प्रतिक्षण क्यों बजाई जा रही है ? भीमसेन—देवि, और कुछ नहीं । यज्ञ का आरम्भ है । द्रौपदी—वह कौन यज्ञ है ? भीमसेन—रणयज्ञ, देखिए— हम लोग चारों भाई ऋत्विज हैं, भगवान् वासुदेव यज्ञीय-विधानोपदेशक आचार्य हैं, भूमिपाल युधिष्ठिर यजमान हैं; व्रतधारण की हुई द्रौपदी ( इस यज्ञ में ) पत्नी हैं
४० वेणीसंहारं नाटकं संग्रामाध्वरदीक्षितो नरपतिः पत्नी गृहीतव्रता । कौरव्याः पशवः प्रियापरिभवक्लेशोपशान्तिः फलं राजन्योपनिमन्त्रणाय रसति स्फीतं यशोदुन्दुभिः ॥ २५ ॥ सहदेवः—आर्य, गच्छामो वयमिदानीं गुरुजनानुज्ञाता विक्रमानुरूपमा- चरितुम् । भीमसेनः—वत्स, एते वयमुद्यता आर्यस्यानुज्ञामनुष्ठातुमेव (उत्थाय ।) तत्पाञ्चालि, गच्छामो वयमिदानीं कुरुकुलक्षयाय । द्रौपदी—(बाष्पं धारयन्ती ।) णाह, असुरसमराहिमुहस्स हरिणो विअ मङ्गलं तुम्हाणं होदु । जं च अम्बा कुन्दी आसासदि तं तुम्हाणं होदु । (नाथ द्यसुरसमराभिमुखस्य हरेरिव मङ्गलं युष्माकं भवतु । यच्चाम्बा कुन्त्याशास्ते तद्युष्माकं भवतु ।) पदेष्टा = आचार्यः, नरपतिः = युधिष्ठिरः सङ्ग्रामाध्वरदीक्षितः = सङ्ग्रामः, अध्वर इव तत्र दीक्षितः, पत्नी = द्रौपदी, गृहीतव्रता = आचरितनियमा, कौरव्याः = कुरु- वंशजाताः, पशवः = यज्ञे आलम्भनीया जन्तुविशेषाः, फलं = लाभः, प्रियापरिभव- क्लेशोपशान्तिः = द्रौपदीतिरस्कारजन्यदुःखविनाशः, राजन्योपनिमन्त्रणाय = क्षत्रि- याह्वानाय, स्फीतं, यथा स्यादेवम्, यशोदुन्दुभिः, रसति = शब्दं करोति । अत्रोद्भे- दाख्यं नाट्याङ्गम् तदुक्तं दर्पणे —'बीजार्थस्य प्ररोहः स्यादुद्भेदः' इति । शार्दूल- विक्रीडितं छन्दः ॥ २५ ॥ कौरव वलि के लिये पशु का काम देंगे; प्रियतमा के अपमानित दुःख की शान्ति ही इस यज्ञ के विधान का फल होगा । राजाओं को निमन्त्रित करने के लिये मूर्तिमती यश की दुन्दुभी बार-बार बज रही है ॥ २५ ॥ सहदेव—आर्य, अब हम लोग भी पूज्य लोगों से आज्ञा प्राप्त कर अपने अपने बल- पराक्रम के अनुसार कार्य करने के लिये चलें । भीमसेन—वत्स, ये हम लोग महाराज की आज्ञा पालन के लिये ही उद्यत हैं (उठ- कर) पाञ्चालपुत्रि, अब हम लोग कुरुवंश के नाशार्थ चल रहे हैं । द्रौपदी—(अश्रु भर कर ), नाथ, दैत्यों के साथ युद्ध के लिये प्रस्थित भगवान् विष्णु की भाँति आप लोगों का मङ्गल हो और आप लोगों के लिये जिस मंगल की कामना माता कुन्ती करती हैं वह भी हो ।
प्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ४१ उभौ - प्रतिगृहीतं मङ्गलवचनमस्माभिः । द्रौपदी-अण्णं च णाह, पुणोवि तुम्हेहि समरादो आअच्छिअ अहं समास्सासदव्वा । ( अन्यच्च नाथ, पुनरपि युष्माभिः समरादागत्याहं समाश्वा- सयितव्या । ) भीमसेनः - ननु पाञ्चालराजतनये, किमद्याप्यलीकाश्वासनया । भूयः परिभवक्लान्तिलज्जाविधुरिताननम् । अनिःशेषितकौरव्यं न पश्यसि वृकोदरम् ॥ २६ ॥ द्रौपदी णाह, मा क्खु जण्णसेणीपरिहवउद्दीविदकोवाणला अणवेक्खि- दसरीरा सञ्चरिस्सध। जदो अप्पमत्तसञ्चरणिज्जाइं रिउवलाइं सुणीअन्ति । ( नाथ ! मा खलु याज्ञसेनीपरिभवोद्दीपितकोपानला अनपेक्षितशरीराः सञ्चरिष्यथ । यतोऽप्रमत्तसञ्चरणीयानि रिपुबलानि श्रूयन्ते । ) भीमसेनः - अयि सुक्षत्रिये, प्रतिगृहीतम् = स्वीकृतम् । अन्वय - भूयः परिभवक्लान्तिलज्जाविधुरिताननम्, अनिःशेषितकौरव्यम्, वृकोदरम्, न पश्यसि ॥ २६ ॥ निहतकौरवमेव मां त्वं पश्यसीत्याह- भूय इति । भूयःपरिभवक्लान्तिलज्जा- विधुरिताननम् = भूयान्, बहुलो यः परिभवः परिभावः तेन या क्लान्तिः, ग्लानिः तथा या लज्जा तया विधुरितम्, उदस्तम्, आननम्, मुखं यस्य तम्, अनिःशेषित- कौरव्यम् = अनिःशेपिता समूलमविनाशिताः कौरव्याः येन तम्, वृकोदरम् = भीमम्, न, पश्यसि = द्रक्ष्यसि, वर्तमानसामीप्ये, भविष्यति लट् । अत्र हेतोः पदार्थत्वेन काव्यलिङ्गमलङ्कारः । पथ्यावक्त्रं छन्दः ॥ २६ ॥ दोनों - [ सहदेव और भीम ]-आपके आशीर्वचनों को हम लोगों ने स्वीकार कर लिया। द्रौपदी-नाथ ! आप रणभूमि से आकर फिर मुझे आश्वासित करें । भीमसेन-पाञ्चाली, आज इस असत्य आश्वासन से क्या ? निरन्तर के अपमान से उत्पन्न दुःख और लज्जा से म्लान मुखवाले भीम को कौरवों के समाप्त हुये बिना न देखोगी ॥ २६ ॥ द्रौपदी-नाथ, मुझ याज्ञसेनी के अपमान से क्रोधाग्नि को उद्दीप्त करके अपने शरीर की उपेक्षा करके संग्राम में न जाना । क्योंकि सुना जाता है कि बड़ी सावधानी के साथ शत्रुसैन्य का अनुसरण करना चाहिए । भीमसेन-अयि, क्षत्रियवरे !
४२ वेणीसंहारं नाटकं १ अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कवन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ २७ ॥ ( इति निष्क्रान्ताः सर्वे । ) इति प्रथमोऽङ्कः । अन्वयः—अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के, मग्नानाम्, स्यन्द- नानाम्, उपरिकृतपदन्यासविक्रान्तपत्तौ, स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्य- त्कवन्धे सङ्ग्रामैकार्णवान्तःपयसि, विचरितुम्, पाण्डुपुत्राः पण्डिताः ॥ २७ ॥ अन्योऽन्येति । अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के = अन्योन्या- स्फालः, परस्परसङ्घर्षः, तेन भिन्ना ये द्विपाः, हस्तिनः, तेषां यानि रुधिरवसामां- समस्तिष्कानि, तान्येव पङ्कम् तस्मिन्, मग्नानां = पतितानाम्, स्यन्दनानां = रथा- नाम्, उपरिकृतपदन्यासविक्रान्तपत्तौ = उपरिकृतः, पदन्यासः यया सा विक्रान्तपत्तिः वीरसेनाविशेषः यस्मिन्, यदुक्तं भरतेन — एको रथो गजश्चैको भटाः पञ्च पदातयः । त्रयश्च तुरगास्तज्जैः पत्तिरित्यभिधीयते । इति॥ अस्मिन्, स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कवन्धे = स्फीतासृजां या पानगोष्ठी पानसभा, तस्यां रसन्त्यः नदन्त्यः या अशिवाः अमङ्गलहेतुभूताः शिवाः शृङ्गाल्यः तत्स्वरूपा एव तुर्यः वाद्यविशेषः, तेन नृत्यन्तः कबन्धाः, अमस्तकदेहाः यस्मिन् तस्मिन्, सङ्ग्रामैकार्णवान्तःपयसि=सङ्ग्रामः एकार्णवस्तदन्तःपय इव तस्मिन्, विचरितुं=सञ्चरितुम्, पाण्डुपुत्राः = युधिष्ठिरादयः, पण्डिताः = अभिज्ञाः । अत्रोपमा रूपकं चालङ्कारः । स्रग्धरा छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ २६ ॥ इति प्रबोधिनीव्याख्यायां प्रथमोऽङ्कः । जिस समरभूमि रूपी समुद्र के गम्भीर जल में, परस्पर अभिहत हाथियों के फूटे हुए मस्तक से निकलते हुए रक्त, मांस, चर्बी तथा मस्तिष्क के कीचड़ के बीच में धँसे हुए रथों पर पैर रखकर पैदल योद्धा आक्रमण कर रहे हों और विशुद्ध रक्त के प्रीतिसहभोज में आस्वादन करके अमंगल शब्द करती हुई शृङ्गाली को तुरही मान कबन्ध नृत्य कर रहे हों उसमें विचरण करने के लिए पाण्डव दक्ष हैं ॥ २७ ॥ प्रथमाङ्क समाप्त ।
द्वितीयोऽङ्कः ( ततः प्रविशति कञ्चुकी ।) कञ्चुकी—आदिष्टोऽस्मि महाराजदुर्योधनेन—'विनयंधर, सत्वरं गच्छ- त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ता अम्बायाः पादवन्दन- समयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृ- तयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्याः' इति । यन्मया पुंसानामुद्भवेन प्रणिहततमसाविन्दिरादृष्टिपाता- द्धित्वा तृष्णां सुखेष्वाशु शुभवनहरि मङ्गुरुष्वेहिकेपु । ज्ञानाक्षणाऽऽनादिनित्य सदमरपुरुषं योगिनो द्रष्टुकामो नित्यानन्दाख्यालथ्यो शमितनिजरिपू नोमि नम्रः पितृव्यौ ॥ १ ॥ वीररसप्रधाननाटकेऽस्मिन् प्रथमेऽङ्के युद्धसूचकदुन्दुभिताडनादिना वर्णिते कुरु- पाण्डवयुद्धप्रारम्भे—'एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे ।' इति दर्पणात् । सर्वान्तर्गतशृङ्गाररसं वर्णयितुं द्वितीयोऽङ्क आरभ्यते—द्वितीयोऽङ्कः इति । केचित्तु-अत्र शृङ्गाररसवर्णनमयुक्तमित्याहुः । 'दूराह्वानं वधो युद्धं राज्यदे- शादिविप्लवः । स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः ॥' इति दर्पणकारवचनाद् । युद्धेऽभिमन्युवधं रङ्गभूमावप्रदर्श्य कञ्चुकिमुखेन वर्णयितुमाह—कञ्चुकीति । महाराजदुर्योधनेन = कौरवराजेन, विनयन्धरेत्यादिसभाजयितव्या इत्यन्तस्य आदिष्टोऽस्मि = आज्ञापितोऽस्मि, इत्यनेनान्वयः । विनयन्धरः = विनयन्धरनामक- कञ्चुकिविशेषः । सत्वरम् = त्वरया सहितम्, शीघ्रमित्यर्थः । अन्विष्यताम् = अन्वेषणं क्रियताम्, देवी = कृताभिषेका, भानुमती = दुर्योधनस्त्री । अपिशब्दः प्रश्ने, किमित्यर्थः । अम्बायाः = मातुः गान्धार्याः, पादवन्दनसमयात् = चरणवन्द- नरूपाचारात्, 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । निवृत्ता = परावृत्ता, न वेत्यन्वयः । ताम् = भानुमतीम्, विलोक्य = दृष्ट्वा, निहताभिमन्यवः = निहतः अभिमन्युः यैः ते । राधेयः = कर्णः । जयद्रथः = दुर्योधनस्य स्वसृपतिः । समरभूमिं = सङ्ग्रामस्थानम् । सभाजयितव्याः = ससम्मानमभिनन्दनीयाः । तत् = ( कञ्चुकी का प्रवेश ) कञ्चुकी—महाराज दुर्योधन के द्वारा मुझे आज्ञा दी गई है—'विनयन्धर ! तू शीघ्र जा भानुमती का अन्वेषण कर । माता जी का पादवन्दन करके वे लौटीं या नहीं । क्योंकि उन्हें देखकर मुझे रणक्षेत्र में जाकर कर्ण, जयद्रथ इत्यादि अपने सेनापतियों को, जिन्होंने अभिमन्यु का वध किया है, सम्मानित करना है'—अतः मुझे शीघ्र जाना चाहिए ।
४४ वेणीसंहारं नाटकं द्रुततरं गन्तव्यमिति । अहो प्रभविष्णुता महाराजस्य, यन्मम जरसाभि- भूतस्य मर्यादामात्रमेवावरोधव्यापारः अथवा किमिति जरामुपालभेयं, यतः सर्वान्तःपुरचारिणामयमेव व्यावहारिको वेषश्चेष्टा च । तथाहि— नोच्चैः सत्यपि चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता । तस्मात्, मया = कञ्चुकिना, द्रुततरम् = अतिशीघ्रम् । अहो = अद्भुतम्, महाराजस्य =, दुर्योधनस्य, प्रभविष्णुता = प्रभुता, इत्यन्वयः । तदेवाह—यदति । जरसाभिभूतस्य = वृद्धस्य, मर्यादामात्रम् = नाहं रक्षितुं समर्थः किन्तु मम सम्मानमात्रमेवेति भावः । अवरोधव्यापारः = अन्तःपुररक्षणम् । उपालभेयं = आक्षिपेयम् । व्यावहारिकः = व्यवहारसम्बन्धी, वेषः = आकल्पः, 'आकल्पवेषौ नेपथ्यम्'त्यमरः । चेष्टा = क्रिया । अन्वयः—चक्षुषि सति, अपि, उच्चैः, ईक्षितुम, अलम्, न, श्रुत्वा, अपि, न आकर्णितम्, शक्तेन, अपि, ( ममं ) अधिकार इति, ( हेतोः ) अधिकृता, यष्टिः, समालम्बिता, तथा, सर्वत्र स्खलितेषु, दत्तमना, ( अतएव ) उद्धतम्, न, जातम्, सेवाङ्गीकृतजीवितस्य मे, यत्, ( तत् ) जरसा, किम्, नाम, कृतम् ॥ अन्तःपुरस्थजनानां वेषादीनाह—नोच्चैः सत्यपीति । चक्षुषि = नेत्रे, सत्यपि = वर्तमानेऽपि, उच्चैः = ऊर्ध्वम् । ईक्षितुं = द्रष्टुम्, अलं = समर्थः, न, एतेन अन्तःपुररक्षकाणामधोदृष्टिः कर्तव्येति सूचितम् । श्रुत्वा = आकर्ण्य, अपि, न, आकर्णितम् = श्रुतम्, श्रुतमपि अश्रुतमेवेति भावः । शक्तेन = यष्टिं विना गमनसमर्थेन, अपि, ममेत्यध्याहारः । मम, अधिकार यदि = मम कञ्चु- किनोऽधिकारो यष्टिसमालम्बनमिति हेतोः, अधिकृता = ग्रहणार्हा, यष्टिः = यष्टिका, समालम्बिता = गृहीता एतेनान्तःपुरनिवासयोग्योऽहमशक्तत्वादिति सूचितम् । तथा = तेनेव प्रकारेण, सर्वत्र = सर्वस्थानेषु, स्खलितेषु = चलनव्यापारप्रच्यवेषु, राजाधिराज की बात है—मुझ बुड्ढे की अन्तःपुर (रनिवास) के कार्य में नियुक्ति मर्यादा की रक्षा मात्र है अर्थात् मैं तो नाम मात्र के लिए हूँ, महाराज के प्रताप से ही अन्तःपुर की रक्षा है अथवा मुझे बुढ़ापे में भी ये कार्य करने पड़ते हैं । और बुढ़ापा को क्या दोष दूँ क्योंकि सभी अन्तःपुर के कर्मचारियों की वेषभूषा भी व्यवहारानुकूल होती है जैसा कि सुना जाता है :— सेवार्थ जीते हुए पुरुष आँखें होते हुए भी उसे ऊपर उठाकर नहीं देख सकते; सुनकर भी अनसुनी कर जाते हैं, सामर्थ्य रहते हुए भी राजचिह्न के नाते दण्ड ग्रहण किए
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ४५ सर्वत्र स्खलितेषु दत्तमनसा जातं तथा नोद्धतं सेवान्धीकृतजीवितस्य जरसा किं नाम यन्मे कृतम् ॥ १ ॥ ( परिक्रम्य दृष्ट्वा आकाशे ।) विहङ्गिके, अपि श्वश्रूजनपादवन्दनं कृत्वा प्रतिनिवृत्ता भानुमती । (कर्णं दत्त्वा ।) किं कथयसि-आर्य, एषा भानुमती देवी पत्युः समरविजयाशंसया निर्वर्तितगुरुजनपादवन्दनाऽद्य- प्रभृत्यारब्धनियमा देवगृहे बालोद्याने तिष्ठतीति । तद्भद्रे, गच्छ त्वमात्म- व्यापाराय यावदहमप्यत्रस्थां देवीं महाराजस्य निवेदयामीति । (परिक्रम्य) दत्तमनसा = दत्तं मनः येन तेन, उद्धतं यथा स्यात्तथा, न जातम् = न भूतम्, गमने औद्धत्यं न कर्तव्यमिति भावः । तथा च सेवान्धीकृतजीवितस्य = सेवया अन्धीकृतम् व्यर्थीकृतं जीवनं येन तस्य, मे = मम, यत् मदीयञ्जाद्यं, तत्, जरसा = वार्द्धक्येन, किन्नाम कृतम्, न किमपीत्यर्थः । जरा नोपालम्भनीयेति भावः । अत्र चक्षुरादिकारणानां सत्त्वेऽपि दर्शनसामर्थ्यादिकार्याणामभावाद्विशेषोक्त्यः । तथा पूर्वोक्तदर्शनसामर्थ्याभावादिकार्याणां हेतोः सेवान्धीकृतजीवितस्येत्येतत्पदार्थत्वेन काव्यलिङ्गम् । शार्दूलविक्रीडितं छन्दः ॥ १ ॥ आकाश इति-पात्रं विनानुक्तमपि विषयं श्रुत्वेव किं कथयसीत्यर्थकं वाक्यं यदुच्यते तदाकाशवचनं कथ्यत इति भावः । तथा चात्र विहङ्गिकाया अभावेऽपि तयोक्तं मत्वा स्वयमेव प्रश्नोत्तरे करोति कञ्चुकी । कञ्चुकी पृच्छति-विहङ्गिक इति । विहङ्गिका काचित् तन्नामिका परिचारिका । प्रतिनिवृत्ता = समागता, भानुमती = दुर्योधनस्त्री । पत्युः = स्वामिनो दुर्योध- नस्य, समरविजयाशंसया = सङ्ग्रामजयेच्छया, निर्वर्तितगुरुजनपादवन्दना = सम्पा- दितश्रेष्ठजनप्रणामा, अद्यप्रभृति = अद्यारभ्य, आरब्धनियमा = उपक्रान्तव्रता, देव- गृहे = देवस्य गृहं यस्मिन् तस्मिन् , बालोद्याने = नूतनक्रीडास्थाने, तिष्ठतीति । तत् = तस्मात् भद्रे = साध्वि । आत्मव्यापाराय = स्वकार्याय । अत्रस्थाम् = उद्यान- स्थाम्, देवीं = भानुमतीम्, महाराजस्य = दुर्योधनस्य । किमिति = वलवत्त्वन्तु रहते हैं; त्रुटि होने के सभी स्थानों से सावधान रहते हैं। अतः मैं भी फूँक-फूँक कर चलता हूँ, इसमें बुढ़ापे का क्या दोष है ॥ १ ॥ (घूमकर देखता है, फिर आकाश की ओर ) विहङ्गिके ! क्या भानुमती अपनी सासु के चरणों में वन्दना करके लौट आई ? ( कान लगाकर ) क्या कहते हो ? - आर्य्य, यह देवी भानुमती अपने पतिदेव के संग्राम में विजय प्राप्त करने की अभिलाषा से गुरुजनों के चरणों की बन्दना करके लौट आई हैं, और आज से व्रत का संकल्प करके देवमन्दिर की
४६ वेणीसंहारं नाटकं
साधु पतिव्रते, साधु, स्त्रीभावेऽपि वर्तमाना वरं भवती न पुनर्महाराजः। योऽयमुद्यतेषु बलवत्सु अथवा किंवलवत्सु वासुदेवसहायेषु पाण्डुपुत्रेष्व- रिष्वद्याप्यन्तःपुरविहारसुखमनुभवति । ( विचिन्त्य । ) इदमपरमयथातथं स्वामिनश्चेष्टितम् । कुतः— आ शस्त्रग्रहणादकुण्ठपरशोस्तस्यापि जेता मुने- स्तापायास्य न पाण्डुसूनुभिरयं भीष्मः शरैः शायितः . प्रौढानेकधनुर्धरारिविजयश्रान्तस्य चैकाकिनो नास्ति किन्तु वासुदेवसहायत्वमेव महद्वलमित्यर्थः । वासुदेवेति—वासुदेवसहायेष्वित्यनेन पाण्डुपुत्रेषु दुर्जेयवैरित्वं सूचयति । अन्वयः -- आ अस्त्रग्रहणात्, अकुण्ठपरशोः, तस्य, मुनेः अपि, जेता, अयम्, भीष्मः, पाण्डुसूनुभिः शरैः, शायितः, ( तत् ) अस्य, तापाय, न, ( किन्तु ) प्रौढा- नेकधनुर्धरारिविजयश्रान्तस्य, एकाकिनः, अरातिलूनधनुषः, च, वालस्य, अभिमन्योः, वधात्, प्रीतः ( अस्ति ) ॥ २ ॥ अयथातथकारणमाह—आ शस्त्रग्रहणादिति । आ शस्त्रग्रहणात् = शस्त्रग्रहणम- भिव्याप्य, अकुण्ठपरशोः = सफलकुठारस्य, तस्य = प्रसिद्धस्य, मुनेः = परशु- रामस्य, अपि, जेता = जयकर्ता, अयम्, भीष्मः = गङ्गातनयः, पाण्डुसूनुभिः, शरैः = वाणैः, शायितः = स्वापितः, पातित इत्यर्थः । यः खलु परशुरामस्य जेता भीष्मः सोऽपि पाण्डुपुत्रैः पातित इति भावः । तत्, अध्याहारस्तत्तदस्य। अस्य = मत्स्वामिनो दुर्योधनस्य, तापाय = दुःखाय, न, किन्तु प्रौढानेकधनुर्धरारिविजयश्रा- न्तस्य = प्रौढाश्च ते अनेकधनुर्धरा इति प्रौढानेकधनुर्धराः ते च अरयः तेषां विजयेन श्रान्तस्य, एकाकिनः = असहायस्य, अरातिलूनधनुषः = अरातिना शत्रुना लूनं धनुः क्रीडावाटिका में ठहरी हुई हैं। अतः कल्याणि, जाओ, अपने कार्य में लग जाओ, तब तक मैं भी यहाँ वाटिकास्थ महारानी को सूचना दे दूँ । ( घूमकर ) धन्य ! पतिव्रतपरायणे धन्य !! आप स्त्री होकर भी अच्छी हैं, महाराज नहीं, क्योंकि इनके शत्रु पाण्डव शिर पर खड़े हैं चाहे वह प्रबल हों चाहे निर्बल, हैं तो शत्रु ! उनकी सहायता भगवान् वासुदेव कर रहे हैं, तो भी महाराज रनिवास के सुख में भूले हुए हैं ( समझ-बूझकर ) और भी एक दूसरा अनुचित कार्य हैं जिसे महाराज कर रहे हैं। क्योंकि— परशुराम सदृश वीर मुनि के, जिनका कुठार कभी कुण्ठित नहीं हुआ, विजेता भीष्म- पितामह को पाण्डुकुमारों ने बाणवर्षा कर धराशायी बना दिया यह भी महाराज को लेशमात्र भी चिन्तित नहीं करता है और असहाय बालक अभिमन्यु के जिसके धनुष को
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ४७ बालस्यायमरातिलूनधनुषः प्रीतोऽभिमन्योर्वधात् ॥ २ ॥ सर्वथा दैवं नः स्वस्ति करिष्यति तद्यावदवस्थां देवीं महाराजस्य निवेदयामि । ( इति निष्क्रान्तः । ) विष्कम्भकः । ( ततः प्रविशत्यासनस्था देवी भानुमती, सखी चेटी च । ) सखी—सहि भाणुमदि, कीस दाणि तुमं सिविणअ दंसणमेत्तस्स किदे अहिमाणिणो महाराअदुज्जोहणस्स महिसी अविअ एव्वं विअलिअधीर- यस्य तस्य, अत्र धनुषश्चेति प्राप्तसङोऽभावस्तु समासान्तविधेरनित्यत्वादेव । च, बालस्य=अल्पवयस्कस्य, अभिमन्योः = अर्जुनपुत्रस्य, वधात् = हननात्, अयं = दुर्योधनः, प्रीतः=प्रसन्नः, अस्तीति शेषः । पराक्रमिणो भीष्मस्य पातनाद् दुःख- स्थानेऽपि दुःखाभावः बहुभिर्महारथिमिलित्वाऽसहायस्याभिमन्योर्वधात् हर्षस्थाना- भावेऽपि हर्ष इति ध्वनितमनेन श्लोकेन । अत्र भीष्मपातनरूपतापकारणस्य सत्त्वे- ऽपि तापरूपकार्याभावाद् विशेषोक्तिरलङ्कारः । तथोत्तरार्द्धे बालस्य बहुकर्तृकवधेन हर्षकारणाभावेपि हर्षरूपकार्यस्य सत्त्वाद्विभावनालंकारः । शार्दूलविक्रीडितं छन्दः । लक्षणमुक्तं प्रथमश्लोके ॥ २ ॥ दैवं=भाग्यम्, नः=अस्माकम्, स्वस्ति = मङ्गलं करिष्यतीत्यन्वयः । विष्कम्भक इति । भूतस्य भीष्माभिमन्युवधस्य भविष्यतोऽन्तःपुरविहारस्य च सूचनादस्य विष्कम्भकत्वं तदुक्तम्— वृत्तवर्तिष्यमाणानां कथांशानां निदर्शकः । सङ्क्षिप्तार्थस्तु विष्कम्भ आदावंकस्य दर्शितः ॥ इति । अयं शुद्ध एव विष्कम्भः, तदुक्तम्— मध्येन मध्यमाभ्यां वा पात्राभ्यां सम्प्रयोजितः । शुद्धः स्यादिति । सेनापतिवधवर्णनेऽपि न विष्कम्भकत्वहानिः विष्कम्भकेऽधिकारिणः एव वध वर्णननिषेधात् । तदुक्तं दर्पणे—विष्कम्भकाद्यैरपि न वधो वाच्योऽधिकारिणः । इति । शत्रुओं ने काट डाला था और अनेक युवा धनुर्धर शत्रुओं पर विजय प्राप्त करने से थका हुआ था, वधसे महाराज प्रसन्न हैं ॥ १ ॥ भगवान् सब तरह से कुशल करेंगे । तब तक यहाँ ठहरी हुई महारानी की सूचना महाराज को दे दें ( निकल पड़ता है ) । ( विष्कम्भक ) ( सखियों और चेटियों के साथ भानुमती देवी का प्रवेश ) सखी—सखि, भानुमति, क्या कारण है कि तुम मानी महाराज दुर्योधन की स्त्री
भावा अतिमेत्तं संतप्पसि ! (सखि भानुमति, कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवंविगलितधीरभावातिमात्रं संतप्यसे ) चेटी-भट्टिणि, सोहणं भणादि सुवअणा । सिविणअन्तो जणा किं ण क्खु प्पलवदि ! ( भट्टिनि, शोभनं भणति सुवदना । स्वप्नञ्जनः किं न खलु प्रलपति । ) भानुमती—हज्जे, एव्वं णेदं । किणु एदं सिविणं अदिमेत्तं अकुसल- दंसणं मे पडिभादि । ( हञ्जे, एवमेतत् । किन्त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति । ) सखी—जइ एव्वं ता कहेदु पिअसही जेण अह्मॆवि पडिट्ठावअन्ती- आ प्पसंसाए देवदासकित्तणेण अ पडिहडिस्सामा । ( यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासङ्कीर्तनेन च परिहरिष्यावः ) सखी, दृष्टाशुभसूचकस्वप्नां भानुमतीं सम्यक् तोषयति—सखि भानुमतीति । स्वप्नदर्शनमात्रस्य कृते = स्वप्नावलोकनमात्रहेतुना । अभिमानिन इत्यनेन तस्या न कोऽपि किमपि कर्तुं शक्नोतीति सूचितम् । महिषी=कृताभिषेका स्त्री । एतेन त्वयि गरीयान् स्नेह इति सूचितम् । एवमिति सन्तप्यस इत्यनेनान्वेति । विगलित- धीरभावा=विगलितः शिथिलः धीरभावः धैर्यं यस्याः सा, अतिमात्रम् = भृशम् , ‘अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरमि’त्यमरः । सन्तप्यसे = दुःखिता भवसि । सुवदना = एतन्नामिका सखी, शोभनं = सुष्ठु, भणति = कथयति । स्वप्नम् = शयानः । प्रलपति=असम्बद्धं वचो वदति । हञ्जे इति चेटीम्प्रत्याह्वाने प्रयुज्यते, ‘हण्डे हञ्जे हलाऽह्वाने नीचां चेटीं सखी प्रति’ इत्यमरः । अकुशलं दर्शयतीति अकुशलदर्शनः ‘नन्दिग्रहिपचादिभ्यः’ इति ल्युप्रत्ययः । प्रतिभाति = अवगतो भवति । एवम् = अकुशलदर्शनः । प्रियसखी = भानुमती । आवाम् = सखीचेटीच्यो, अपि प्रतिष्ठापयन्त्यौ = अशुभस्वप्नं शुभं कुर्वत्यौ, प्रशंसया = पूजया, देवतासङ्कीर्तनेन = देवस्तुत्या । परिहरिष्यावः = निवर्तयिष्यावः । होकर केवल स्वप्न देखने से धैर्यच्युत होकर अत्यन्त संतप्त हो रही हो । चेटी—स्वामिनि सुवदना ठीक कहती है, सोयाहुआ व्यक्ति क्या-क्या नहीं बक जाता ? भानुमती—अरी, यह ठीक है परंतु यह स्वप्नदर्शन तो मुझे अमंगलकारी प्रतीत हो रहा है । सखी—प्रियसखि, यदि ऐसा है तो उस स्वप्न को कहिये जिससे हम लोग भी धार्मिक कथाओं से, देवताओं के नाम लेने से और दूब इत्यादि मांगलिक वस्तुओं के स्पर्श से शान्ति करेंगी ।
द्वितीयोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् चेटी—देवि एवं णेदं । अकुसलदंसणावि । सिविणआप्पसंसाए कुशल- परिणामा होन्ति त्ति सुणीयदि । (देवि, एवमेतत् । अकुशलदर्शना अपि स्वप्नाः प्रशंसया कुशलपरिणामा भवन्तीति श्रूयते । ) भानुमती—जइ एवं ता कहइस्सम् । अवहिदा होध ( यद्येवं तत्कथ- यिष्ये । अवहिते भवतम् । ) सखी—कहेदु पिअसही ( कथयतु प्रियसखी । ) भानुमती—मुहुत्तं चिट्ठ जाव सव्वं सुमरिस्सम् । ( इति चिन्तां नाटयति । ) ( मुहूर्तं तिष्ठ यावत्सर्वं स्मरिष्यामि । ) ( ततः प्रविशति दुर्योधनः कञ्चुकी च । ) दुर्योधनः—सूक्तमिदं कस्यचित् । गुप्त्या साक्षान्महानल्पः स्वयमन्येन वा कृतः । कुशलपरिणामाः = कुशलस्वरूपाः, कुशलदायिन इत्यर्थः । अवहिते = सावधाने, द्विवचनान्तमिदम् । मुहूर्तं = किञ्चित् कालम् । धैर्यावसादात् स्वप्नो विस्मृत इत्यत आह—सर्वं स्मरिष्यामीति । सूक्तं = शोभनोक्तिः भावे क्तप्रत्ययः । अन्वयः—अपकारिणाम् , गुप्त्या, साक्षात्, वा, महान् , अल्पः ( वा ) स्वयम् अन्येन ( वा ) कृतः, अपकारः, महतीम् , प्रीति, करोति ॥ ३ ॥ सूक्तिमेवाह—गुप्त्या साक्षादिति । अपकारिणाम् = शत्रूणां, गुप्त्या = गोपनेन, चेटी—शोभना ठीक कहती है—ऐसा सुना जाता है कि अमङ्गलकारी स्वप्न भी देवताओं के नाम-कीर्तन से कुशल-कारक हो जाते हैं । भानुमती—यदि ऐसा है तो मैं कहती हूँ । पहले सावधान हो जाओ । सखी—हम लोग शान्तचित्त हैं, प्रिय सहेली कहें तो । भानुमती—सखि, भय से भूल गई हों अच्छा तो थोड़ा ठहर जाओ स्मरण करके सब कह रही हूँ । ( दुर्योधन का कञ्चुकी के साथ प्रवेश ) दुर्योधन—किसी ने ठीक कहा है कि— शत्रु के प्रति किया गया अपकार असीम आनन्द का जनक होता है चाहे वह अप्रकट ४ वे०