वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 58, कुल 355 में से
संदर्भ में पढ़ेंप्रथमोऽङ्कः ] प्रबोधिनी-प्रकाशद्वयोपेतम् ३७ आत्मारामैर्विहितरतयो निर्विकल्पे समाधौ ज्ञानोत्सेकाद्विघटिततमोग्रन्थयः सत्त्वनिष्ठाः । यं वीक्षन्ते कमपि तमसां ज्योतिषां वा परस्तात् तं मोहान्धः कथमयममुं वेत्ति देवं पुराणम् ॥ २३ ॥ आर्य जयन्धर, किमिदानीमध्यवस्यति गुरुः । अन्वयः—आत्मारामैः, निर्विकल्पे, समाधौ विहितरतयः, ज्ञानोत्सेकात्, विघ- टिततमोग्रन्थयः, सत्त्वनिष्ठाः, तमसां, ज्योतिषां, वा, परस्तात्, यम्, कम्, अपि, वीक्षन्ते, तम्, पुराणम्, अमुम्, मोहान्धः, अयम्, कथम्, वेत्ति ॥ २३ ॥ वासुदेवो न साधारणमनुष्यज्ञानविषय ईश्वरत्वेन भवितुमर्हतीत्याह—आत्मा- रामा इति। आत्मारामैः = आ सम्यक् रमते अस्मिन्निति आरामः, रमणस्थानम्, आत्मा आरामः येषां ते आत्मारामैः, आत्मनिष्ठाः, योगिन इत्यर्थः । अथवा आत्मनि आ समन्तात् रमन्त इत्यात्मारामैः, निर्विकल्पे = विकल्पो विकल्पना मिथ्याज्ञान- मित्यर्थः । स निर्गतो यस्मात्, तस्मिन्, समाधौ = ध्यातृध्यानपरित्यागपूर्वकध्येय- मात्रविषयकज्ञाने, अथवा ध्यानोत्तरकालिकयोगाङ्गविशेषे, (च) विहितरतयः = कृता- नुरागाः, ज्ञानोत्सेकात् = ज्ञानस्योत्सेको विशुद्धता ततः तत्त्वज्ञानादित्यर्थः । विघटित- तमोग्रन्थयः = विघटिताः, दूरीकृताः तमोग्रन्थयः, तूलाविद्या येः ते, एतेन रजस्त- मोराहित्यं सूचितम् । तमसां = अन्धकाराणाम् , ज्योतिषां = तेजसाम्, वा, पर- स्तात् = भिन्नम्, तदुक्तं श्रुतौ—'तस्य भासा सर्वमिदं विभाति' । इति । यम् = परमात्मानं, कमपि = अनिर्वचनीयम्, वीक्षन्ते = पश्यन्ति, पुराणम् = आद्यन्तहीनम्, तम्, देवं = परं ब्रह्म, अमुं = कृष्णम्, मोहान्धः = तमोगुणावृत्तः, अयं = दुर्योधनः, कथं, वेत्ति = जानाति, न कथमपीत्यर्थः, एतेन योगिनामेव गम्योऽयमिति सूचि- तम् । मन्दाक्रान्ता छन्दः । मन्दाक्रान्ताम्बुधिरसनगैर्मो भनौ गौ ययुग्ममिति लक्षणात् ॥ २३ ॥ अध्यवस्यति = सम्पादयति । कल्पनातीत समाधि लगा कर आत्मारूपी उपवन में पूर्णतया अनुरक्त, ज्ञान के आधिक्य से तमोगुण की ग्रन्थियों के विच्छेदक सत्त्वगुणालम्बकर्त्ता योगीजन अन्धकार से परे अथवा प्रकाश से परे जिस किसी को देख पाते हैं, उस पुराण पुरुष को मूढ सुयोधन किस प्रकार समझ सकता है ॥ २३ ॥ आर्य जयन्धर, अब महाराज क्या करना चाहते हैं ?