वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 64, कुल 355 में से
संदर्भ में पढ़ेंद्वितीयोऽङ्कः ( ततः प्रविशति कञ्चुकी ।) कञ्चुकी—आदिष्टोऽस्मि महाराजदुर्योधनेन—'विनयंधर, सत्वरं गच्छ- त्वम् । अन्विष्यतां देवी भानुमती । अपि निवृत्ता अम्बायाः पादवन्दन- समयान्न वेति । यतस्तां विलोक्य निहताभिमन्यवो राधेयजयद्रथप्रभृ- तयोऽस्मत्सेनापतयः समरभूमिं गत्वा सभाजयितव्याः' इति । यन्मया पुंसानामुद्भवेन प्रणिहततमसाविन्दिरादृष्टिपाता- द्धित्वा तृष्णां सुखेष्वाशु शुभवनहरि मङ्गुरुष्वेहिकेपु । ज्ञानाक्षणाऽऽनादिनित्य सदमरपुरुषं योगिनो द्रष्टुकामो नित्यानन्दाख्यालथ्यो शमितनिजरिपू नोमि नम्रः पितृव्यौ ॥ १ ॥ वीररसप्रधाननाटकेऽस्मिन् प्रथमेऽङ्के युद्धसूचकदुन्दुभिताडनादिना वर्णिते कुरु- पाण्डवयुद्धप्रारम्भे—'एक एव भवेदङ्गी शृङ्गारो वीर एव वा । अङ्गमन्ये रसाः सर्वे ।' इति दर्पणात् । सर्वान्तर्गतशृङ्गाररसं वर्णयितुं द्वितीयोऽङ्क आरभ्यते—द्वितीयोऽङ्कः इति । केचित्तु-अत्र शृङ्गाररसवर्णनमयुक्तमित्याहुः । 'दूराह्वानं वधो युद्धं राज्यदे- शादिविप्लवः । स्नानानुलेपने चैभिर्वर्जितो नातिविस्तरः ॥' इति दर्पणकारवचनाद् । युद्धेऽभिमन्युवधं रङ्गभूमावप्रदर्श्य कञ्चुकिमुखेन वर्णयितुमाह—कञ्चुकीति । महाराजदुर्योधनेन = कौरवराजेन, विनयन्धरेत्यादिसभाजयितव्या इत्यन्तस्य आदिष्टोऽस्मि = आज्ञापितोऽस्मि, इत्यनेनान्वयः । विनयन्धरः = विनयन्धरनामक- कञ्चुकिविशेषः । सत्वरम् = त्वरया सहितम्, शीघ्रमित्यर्थः । अन्विष्यताम् = अन्वेषणं क्रियताम्, देवी = कृताभिषेका, भानुमती = दुर्योधनस्त्री । अपिशब्दः प्रश्ने, किमित्यर्थः । अम्बायाः = मातुः गान्धार्याः, पादवन्दनसमयात् = चरणवन्द- नरूपाचारात्, 'समयाः शपथाचारकालसिद्धान्तसंविदः' इत्यमरः । निवृत्ता = परावृत्ता, न वेत्यन्वयः । ताम् = भानुमतीम्, विलोक्य = दृष्ट्वा, निहताभिमन्यवः = निहतः अभिमन्युः यैः ते । राधेयः = कर्णः । जयद्रथः = दुर्योधनस्य स्वसृपतिः । समरभूमिं = सङ्ग्रामस्थानम् । सभाजयितव्याः = ससम्मानमभिनन्दनीयाः । तत् = ( कञ्चुकी का प्रवेश ) कञ्चुकी—महाराज दुर्योधन के द्वारा मुझे आज्ञा दी गई है—'विनयन्धर ! तू शीघ्र जा भानुमती का अन्वेषण कर । माता जी का पादवन्दन करके वे लौटीं या नहीं । क्योंकि उन्हें देखकर मुझे रणक्षेत्र में जाकर कर्ण, जयद्रथ इत्यादि अपने सेनापतियों को, जिन्होंने अभिमन्यु का वध किया है, सम्मानित करना है'—अतः मुझे शीघ्र जाना चाहिए ।