वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 65, कुल 355 में से
संदर्भ में पढ़ें४४ वेणीसंहारं नाटकं द्रुततरं गन्तव्यमिति । अहो प्रभविष्णुता महाराजस्य, यन्मम जरसाभि- भूतस्य मर्यादामात्रमेवावरोधव्यापारः अथवा किमिति जरामुपालभेयं, यतः सर्वान्तःपुरचारिणामयमेव व्यावहारिको वेषश्चेष्टा च । तथाहि— नोच्चैः सत्यपि चक्षुषीक्षितुमलं श्रुत्वापि नाकर्णितं शक्तेनाप्यधिकार इत्यधिकृता यष्टिः समालम्बिता । तस्मात्, मया = कञ्चुकिना, द्रुततरम् = अतिशीघ्रम् । अहो = अद्भुतम्, महाराजस्य =, दुर्योधनस्य, प्रभविष्णुता = प्रभुता, इत्यन्वयः । तदेवाह—यदति । जरसाभिभूतस्य = वृद्धस्य, मर्यादामात्रम् = नाहं रक्षितुं समर्थः किन्तु मम सम्मानमात्रमेवेति भावः । अवरोधव्यापारः = अन्तःपुररक्षणम् । उपालभेयं = आक्षिपेयम् । व्यावहारिकः = व्यवहारसम्बन्धी, वेषः = आकल्पः, 'आकल्पवेषौ नेपथ्यम्'त्यमरः । चेष्टा = क्रिया । अन्वयः—चक्षुषि सति, अपि, उच्चैः, ईक्षितुम, अलम्, न, श्रुत्वा, अपि, न आकर्णितम्, शक्तेन, अपि, ( ममं ) अधिकार इति, ( हेतोः ) अधिकृता, यष्टिः, समालम्बिता, तथा, सर्वत्र स्खलितेषु, दत्तमना, ( अतएव ) उद्धतम्, न, जातम्, सेवाङ्गीकृतजीवितस्य मे, यत्, ( तत् ) जरसा, किम्, नाम, कृतम् ॥ अन्तःपुरस्थजनानां वेषादीनाह—नोच्चैः सत्यपीति । चक्षुषि = नेत्रे, सत्यपि = वर्तमानेऽपि, उच्चैः = ऊर्ध्वम् । ईक्षितुं = द्रष्टुम्, अलं = समर्थः, न, एतेन अन्तःपुररक्षकाणामधोदृष्टिः कर्तव्येति सूचितम् । श्रुत्वा = आकर्ण्य, अपि, न, आकर्णितम् = श्रुतम्, श्रुतमपि अश्रुतमेवेति भावः । शक्तेन = यष्टिं विना गमनसमर्थेन, अपि, ममेत्यध्याहारः । मम, अधिकार यदि = मम कञ्चु- किनोऽधिकारो यष्टिसमालम्बनमिति हेतोः, अधिकृता = ग्रहणार्हा, यष्टिः = यष्टिका, समालम्बिता = गृहीता एतेनान्तःपुरनिवासयोग्योऽहमशक्तत्वादिति सूचितम् । तथा = तेनेव प्रकारेण, सर्वत्र = सर्वस्थानेषु, स्खलितेषु = चलनव्यापारप्रच्यवेषु, राजाधिराज की बात है—मुझ बुड्ढे की अन्तःपुर (रनिवास) के कार्य में नियुक्ति मर्यादा की रक्षा मात्र है अर्थात् मैं तो नाम मात्र के लिए हूँ, महाराज के प्रताप से ही अन्तःपुर की रक्षा है अथवा मुझे बुढ़ापे में भी ये कार्य करने पड़ते हैं । और बुढ़ापा को क्या दोष दूँ क्योंकि सभी अन्तःपुर के कर्मचारियों की वेषभूषा भी व्यवहारानुकूल होती है जैसा कि सुना जाता है :— सेवार्थ जीते हुए पुरुष आँखें होते हुए भी उसे ऊपर उठाकर नहीं देख सकते; सुनकर भी अनसुनी कर जाते हैं, सामर्थ्य रहते हुए भी राजचिह्न के नाते दण्ड ग्रहण किए