भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 63, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 63

४२ वेणीसंहारं नाटकं १ अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के मग्नानां स्यन्दनानामुपरिकृतपदन्यासविक्रान्तपत्तौ । स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कवन्धे संग्रामैकार्णवान्तःपयसि विचरितुं पण्डिताः पाण्डुपुत्राः ॥ २७ ॥ ( इति निष्क्रान्ताः सर्वे । ) इति प्रथमोऽङ्कः । अन्वयः—अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के, मग्नानाम्, स्यन्द- नानाम्, उपरिकृतपदन्यासविक्रान्तपत्तौ, स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्य- त्कवन्धे सङ्ग्रामैकार्णवान्तःपयसि, विचरितुम्, पाण्डुपुत्राः पण्डिताः ॥ २७ ॥ अन्योऽन्येति । अन्योन्यास्फालभिन्नद्विपरुधिरवसामांसमस्तिष्कपङ्के = अन्योन्या- स्फालः, परस्परसङ्घर्षः, तेन भिन्ना ये द्विपाः, हस्तिनः, तेषां यानि रुधिरवसामां- समस्तिष्कानि, तान्येव पङ्कम् तस्मिन्, मग्नानां = पतितानाम्, स्यन्दनानां = रथा- नाम्, उपरिकृतपदन्यासविक्रान्तपत्तौ = उपरिकृतः, पदन्यासः यया सा विक्रान्तपत्तिः वीरसेनाविशेषः यस्मिन्, यदुक्तं भरतेन — एको रथो गजश्चैको भटाः पञ्च पदातयः । त्रयश्च तुरगास्तज्जैः पत्तिरित्यभिधीयते । इति॥ अस्मिन्, स्फीतासृक्पानगोष्ठीरसदशिवशिवातूर्यनृत्यत्कवन्धे = स्फीतासृजां या पानगोष्ठी पानसभा, तस्यां रसन्त्यः नदन्त्यः या अशिवाः अमङ्गलहेतुभूताः शिवाः शृङ्गाल्यः तत्स्वरूपा एव तुर्यः वाद्यविशेषः, तेन नृत्यन्तः कबन्धाः, अमस्तकदेहाः यस्मिन् तस्मिन्, सङ्ग्रामैकार्णवान्तःपयसि=सङ्ग्रामः एकार्णवस्तदन्तःपय इव तस्मिन्, विचरितुं=सञ्चरितुम्, पाण्डुपुत्राः = युधिष्ठिरादयः, पण्डिताः = अभिज्ञाः । अत्रोपमा रूपकं चालङ्कारः । स्रग्धरा छन्दः । लक्षणमुक्तं तृतीयश्लोके ॥ २६ ॥ इति प्रबोधिनीव्याख्यायां प्रथमोऽङ्कः । जिस समरभूमि रूपी समुद्र के गम्भीर जल में, परस्पर अभिहत हाथियों के फूटे हुए मस्तक से निकलते हुए रक्त, मांस, चर्बी तथा मस्तिष्क के कीचड़ के बीच में धँसे हुए रथों पर पैर रखकर पैदल योद्धा आक्रमण कर रहे हों और विशुद्ध रक्त के प्रीतिसहभोज में आस्वादन करके अमंगल शब्द करती हुई शृङ्गाली को तुरही मान कबन्ध नृत्य कर रहे हों उसमें विचरण करने के लिए पाण्डव दक्ष हैं ॥ २७ ॥ प्रथमाङ्क समाप्त ।

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या) · पृष्ठ 63, कुल 355 में से · BharatKosha