वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 69, कुल 355 में से
संदर्भ में पढ़ेंभावा अतिमेत्तं संतप्पसि ! (सखि भानुमति, कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवंविगलितधीरभावातिमात्रं संतप्यसे ) चेटी-भट्टिणि, सोहणं भणादि सुवअणा । सिविणअन्तो जणा किं ण क्खु प्पलवदि ! ( भट्टिनि, शोभनं भणति सुवदना । स्वप्नञ्जनः किं न खलु प्रलपति । ) भानुमती—हज्जे, एव्वं णेदं । किणु एदं सिविणं अदिमेत्तं अकुसल- दंसणं मे पडिभादि । ( हञ्जे, एवमेतत् । किन्त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति । ) सखी—जइ एव्वं ता कहेदु पिअसही जेण अह्मॆवि पडिट्ठावअन्ती- आ प्पसंसाए देवदासकित्तणेण अ पडिहडिस्सामा । ( यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासङ्कीर्तनेन च परिहरिष्यावः ) सखी, दृष्टाशुभसूचकस्वप्नां भानुमतीं सम्यक् तोषयति—सखि भानुमतीति । स्वप्नदर्शनमात्रस्य कृते = स्वप्नावलोकनमात्रहेतुना । अभिमानिन इत्यनेन तस्या न कोऽपि किमपि कर्तुं शक्नोतीति सूचितम् । महिषी=कृताभिषेका स्त्री । एतेन त्वयि गरीयान् स्नेह इति सूचितम् । एवमिति सन्तप्यस इत्यनेनान्वेति । विगलित- धीरभावा=विगलितः शिथिलः धीरभावः धैर्यं यस्याः सा, अतिमात्रम् = भृशम् , ‘अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरमि’त्यमरः । सन्तप्यसे = दुःखिता भवसि । सुवदना = एतन्नामिका सखी, शोभनं = सुष्ठु, भणति = कथयति । स्वप्नम् = शयानः । प्रलपति=असम्बद्धं वचो वदति । हञ्जे इति चेटीम्प्रत्याह्वाने प्रयुज्यते, ‘हण्डे हञ्जे हलाऽह्वाने नीचां चेटीं सखी प्रति’ इत्यमरः । अकुशलं दर्शयतीति अकुशलदर्शनः ‘नन्दिग्रहिपचादिभ्यः’ इति ल्युप्रत्ययः । प्रतिभाति = अवगतो भवति । एवम् = अकुशलदर्शनः । प्रियसखी = भानुमती । आवाम् = सखीचेटीच्यो, अपि प्रतिष्ठापयन्त्यौ = अशुभस्वप्नं शुभं कुर्वत्यौ, प्रशंसया = पूजया, देवतासङ्कीर्तनेन = देवस्तुत्या । परिहरिष्यावः = निवर्तयिष्यावः । होकर केवल स्वप्न देखने से धैर्यच्युत होकर अत्यन्त संतप्त हो रही हो । चेटी—स्वामिनि सुवदना ठीक कहती है, सोयाहुआ व्यक्ति क्या-क्या नहीं बक जाता ? भानुमती—अरी, यह ठीक है परंतु यह स्वप्नदर्शन तो मुझे अमंगलकारी प्रतीत हो रहा है । सखी—प्रियसखि, यदि ऐसा है तो उस स्वप्न को कहिये जिससे हम लोग भी धार्मिक कथाओं से, देवताओं के नाम लेने से और दूब इत्यादि मांगलिक वस्तुओं के स्पर्श से शान्ति करेंगी ।