भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 69, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 69

भावा अतिमेत्तं संतप्पसि ! (सखि भानुमति, कस्मादिदानीं त्वं स्वप्नदर्शनमात्रस्य कृतेऽभिमानिनो महाराजदुर्योधनस्य महिषी भूत्वैवंविगलितधीरभावातिमात्रं संतप्यसे ) चेटी-भट्टिणि, सोहणं भणादि सुवअणा । सिविणअन्तो जणा किं ण क्खु प्पलवदि ! ( भट्टिनि, शोभनं भणति सुवदना । स्वप्नञ्जनः किं न खलु प्रलपति । ) भानुमती—हज्जे, एव्वं णेदं । किणु एदं सिविणं अदिमेत्तं अकुसल- दंसणं मे पडिभादि । ( हञ्जे, एवमेतत् । किन्त्वयं स्वप्नोऽतिमात्रमकुशलदर्शनो मे प्रतिभाति । ) सखी—जइ एव्वं ता कहेदु पिअसही जेण अह्मॆवि पडिट्ठावअन्ती- आ प्पसंसाए देवदासकित्तणेण अ पडिहडिस्सामा । ( यद्येवं तत्कथयतु प्रियसखी । येनावामपि प्रतिष्ठापयन्त्यौ प्रशंसया देवतासङ्कीर्तनेन च परिहरिष्यावः ) सखी, दृष्टाशुभसूचकस्वप्नां भानुमतीं सम्यक् तोषयति—सखि भानुमतीति । स्वप्नदर्शनमात्रस्य कृते = स्वप्नावलोकनमात्रहेतुना । अभिमानिन इत्यनेन तस्या न कोऽपि किमपि कर्तुं शक्नोतीति सूचितम् । महिषी=कृताभिषेका स्त्री । एतेन त्वयि गरीयान् स्नेह इति सूचितम् । एवमिति सन्तप्यस इत्यनेनान्वेति । विगलित- धीरभावा=विगलितः शिथिलः धीरभावः धैर्यं यस्याः सा, अतिमात्रम् = भृशम् , ‘अतिवेलभृशात्यर्थातिमात्रोद्गाढनिर्भरमि’त्यमरः । सन्तप्यसे = दुःखिता भवसि । सुवदना = एतन्नामिका सखी, शोभनं = सुष्ठु, भणति = कथयति । स्वप्नम् = शयानः । प्रलपति=असम्बद्धं वचो वदति । हञ्जे इति चेटीम्प्रत्याह्वाने प्रयुज्यते, ‘हण्डे हञ्जे हलाऽह्वाने नीचां चेटीं सखी प्रति’ इत्यमरः । अकुशलं दर्शयतीति अकुशलदर्शनः ‘नन्दिग्रहिपचादिभ्यः’ इति ल्युप्रत्ययः । प्रतिभाति = अवगतो भवति । एवम् = अकुशलदर्शनः । प्रियसखी = भानुमती । आवाम् = सखीचेटीच्यो, अपि प्रतिष्ठापयन्त्यौ = अशुभस्वप्नं शुभं कुर्वत्यौ, प्रशंसया = पूजया, देवतासङ्कीर्तनेन = देवस्तुत्या । परिहरिष्यावः = निवर्तयिष्यावः । होकर केवल स्वप्न देखने से धैर्यच्युत होकर अत्यन्त संतप्त हो रही हो । चेटी—स्वामिनि सुवदना ठीक कहती है, सोयाहुआ व्यक्ति क्या-क्या नहीं बक जाता ? भानुमती—अरी, यह ठीक है परंतु यह स्वप्नदर्शन तो मुझे अमंगलकारी प्रतीत हो रहा है । सखी—प्रियसखि, यदि ऐसा है तो उस स्वप्न को कहिये जिससे हम लोग भी धार्मिक कथाओं से, देवताओं के नाम लेने से और दूब इत्यादि मांगलिक वस्तुओं के स्पर्श से शान्ति करेंगी ।