वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 330, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश द्वयोपेतम् ३११ दुःशासनस्य करकर्षणभिन्नमौलिः सा द्रौपदी कथयत क्व पुनः प्रदेशे ॥ ३५ ॥ कञ्चुकी-हा देवि यज्ञवेदिसम्भवे, परिभूयसे सम्प्रत्यनाथा कुरुकुल- कलङ्केन । युधिष्ठिरः- (सहसोत्थाय ।) पाञ्चालि, न भेतव्यम् । न भेतव्यम् । ( ससंभ्रमम् ।) कः कोऽत्र भोः । सनिषङ्गं मे धनुरुपनय । दुरात्मन् दुर्द्यो- धनहतक, आगच्छागच्छ । अपनयामि ते गदाकौशलसम्भृतं भुजदर्पं शिली- मुखासारेण । अन्यच्च रे कुरुकुलाङ्गार, प्रियमनुजमपश्यंस्तं जरासन्धशत्रुं कुपितहरकिरातद्वेषिणं तं च वत्सम् । मौलिः चूडा यस्याः सा, 'मौलिः किराटे धम्मिल्ले चूडायाम्' इति मेदिनी । पुनः, क्व = कस्मिन्, प्रदेशे = स्थाने, वर्तते, कथय, पश्य मृगो धावती'त्यादिवत्कथयेत्यस्य पूर्वं वाक्यं कर्म । वसन्ततिलका छन्दः ॥ ३५ ॥ यज्ञवेदिसम्भवे = द्रौपदि, कुरुकुलकलङ्केन = कौरववंशलाञ्छनभूतदुर्योधनेन, सम्प्रति, अनाथा = अस्स्वामिनी । परिभूयसे = तिरस्क्रियसे । सहसा = झटिति, न भेतव्यमिति । दुर्योधनादिति शेष । सज्यम् = समौर्वीकम्, धनुः = चापम्, उपनय = आनय, अपनयामि = दूरीकरोमि, गदाकौशलसम्भृतम् = गदा- कौशलेन सम्भृतम्, उत्पन्नम्, शिलीमुखासारेण = बाणधारया । अन्वयः - प्रियम, अनुजम् जरासन्धशत्रुम्, तम्, कुपितहरकिरातद्वेषिणम्, वत्सम्, तम् च, अपश्यन्, कठिनचेताः, त्वम्, इव, प्राणितुम्, न, शक्तः, ( परम् ) बाणवर्षैः तव, असून्, अपहर्तुम्, न च, शक्तः ॥ ३६ ॥ तव प्राणान् हृत्वाैव स्वयं मरिष्यामीत्याह - प्रियमिति । प्रियम् = स्निग्धम्, दुःशासन के द्वारा जिसका वस्त्र खींचा गया था तथा केशों के आकृष्ट करने से जिसकी वेणी खुल गई थी, वह द्रौपदी बतलाइए किस स्थान में है ?' ॥ ३५ ॥ कंचुकी-हाय यज्ञवेदी से उत्पन्न महारानी ! आप [ अब ] असहाय होकर कौरव कुलाङ्गार से अपमानित होंगी । युधिष्ठिर - पाञ्चालि ! डरिए मत, डरिए मत । ( उद्विग्नतापूर्वक ) कौन हैं यहाँ कोई है ? तूणीर के साथ मेरा धनुष लाओ । दुष्ट दुर्योधन ! आओ, आओ, बाणवर्षा से तुम्हारे अभिमान को, जो गदायुद्ध की कला में एकत्रित किया गया है, चूर-चूर कर देता हूँ । और भी अरे कुरुकुलङ्क ! हम जरासन्ध के शत्रु, प्रिय लघु भ्राता ( भीमसेन ) और किरातरूपधारी क्रुद्ध शंकर