वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 345, कुल 355 में से
संदर्भ में पढ़ें३२६ वेणीसंहारं नाटकं ( अर्जुनमालिङ्ग्य । ) वत्स, परिष्वजस्व माम् । कृष्णः—महाराज युधिष्ठिर, व्यासोऽयं भगवानमी च मुनयो वाल्मीकिरामादयो- योगेपि न त्वं भवितुमर्हसि, तथापि अव्यात्मयोगं प्राप्यैव ज्ञातुं शक्यत इति गूढामि- प्रायः । अत एवोक्तं तत्रैव—'अध्यात्मयोगाधिगमेन देवं मत्वा ।' इति । अपि, जगति=संसारे, इह लोके परलोके इत्यर्थः । ( जनः ) दुःखी=शोका- कुलः न, भवति, तदुक्तं छान्दोग्ये— 'एतं सेतुमहोरात्रे तरतो न जरा, न मृत्युर्न शोको न सुकृतं न दुष्कृतम् ।' इति । किम्, पुनः, दृष्ट्वा = साक्षात्कृत्य, दुःखी भविष्यति न कथमपि दुःखी भविष्य- तीत्यर्थः । यस्य चिन्तने, न दुःखं तस्य दर्शने कथं दुःखं स्यादिति भावः । तदुक्तं कठे-'यस्तु विज्ञानवान् भवति समनस्कः सदा शुचिः । स तु तत्पदमाप्नोति यस्माद्- भूयो न जायते ।' इति । अनेन, दुःखकारणस्य जन्मनो निषेधादत्यन्तं दुःखाभावो दर्शितः । कारणभावे कार्यस्यात्यन्तमसम्भावितत्वादिति भावः । अत एवोक्तम् 'तरति शोकमात्मवित्' इति । आत्मवित् परब्रह्मणः साक्षात्कारकर्ता । तरणञ्च मग्नत्वविरोधीति विरुद्धयोः एक- त्रानवस्थानान्न दुःखलेशोऽपीति भावः । अनेन श्लोकेन युधिष्ठिरस्य महत्तत्वं सूचितं कविना । अत्र विरोधापत्तिरलङ्कारो । मालिनी छन्दः ॥ ४३ ॥ अन्वयः—अयम्, भगवान्, व्यासः, अमी, वाल्मीकिरामादयः, मुनयः, च, ला- ङ्गलि विधेयैः, मागधमत्स्ययादवकुलैः समं तं, राज्याभिषेकाय, स्कन्दोत्तम्भिततीर्थवारि- कलशाः, माद्रीसुताधिष्ठिताः धृष्टद्युम्नमुख्याः, सैन्यपतयः, प्राप्ताः ( अनुक्तमेव ) । अहं त्वरिततरमायातो व्यासादयोऽपि तव राज्याभिषेकं कर्तुं त्वरितमेवागच्छ- न्तीति कृष्णः कथयति व्यास इति । अयम् भगवान् = ईश्वरः, ईश्वरत्वन्तु व्यासस्य, 'व्यासाय विष्णुरूपाय व्यासरूपाय विष्णवे ।' इति वचनात् । व्यासः=पाराशर्यः, अमी वाल्मीकिरामादयः = वाल्मीकिः, एतन्नामको रामचरितस्य रचयिता मुनि- विशेषः, रामः = परशुरामः, तत्प्रभृतयः, मुनयः, मागधमत्स्ययादवकुलैः=मगधानां राजेति मागधः, तद्राजेत्यन्वर्थसंज्ञाबलाद्राजन्यपि 'द्व्यचोमागधप्रत्यङ् । मत्स्यानां राजान इति मत्स्याः, अत्रापि तेनैवाण् । 'तद्राजस्य बहुष्वि'ति, तस्य लुक् । ( अर्जुन से मिलकर ) वत्स ! मुझसे मिलो । कृष्ण—महाराज युधिष्ठिर ! ये भगवान् व्यासदेव, वाल्मीकि, परशुराम प्रभृति महर्षि लोग, नकुल सहदेव के