वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 346, कुल 355 में से
संदर्भ में पढ़ेंषष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३२७ धृष्टद्युम्नमुखाश्च सैन्यपतयो माद्रीसुताधिष्ठिताः । प्राप्ता मागधमत्स्ययादवकुलैराज्ञाविधेयैः समं स्कन्धोत्तम्भिततीर्थवारिकलशा राज्याभिषेकाय ते ॥ ४४ ॥ अहं पुनश्चार्वाकेण रक्षसा व्याकुलीकृतं भवन्तमुपलब्ध्यार्जुनेन सह त्वरिततरमायाततः । युधिष्ठिरः—कथं चार्वाकेण रक्षसा वयमेवं विप्रलब्धाः । भीमसेनः—( सरोपम् । ) क्वासौ धार्तराष्ट्रसखो राक्षसः पुण्यजनाप- सदो येनार्यस्य महांश्चित्तविभ्रमः कृतः । कृष्णः—निगृहीतः स दुरात्मा नकुलेन । तत्कथय महाराज, किम- यादवा यदुवंशजाताः तेषां कुलैः, समम् = सह, 'साकं सत्रा समं सह' इत्यमरः । ते, राज्याभिषेकाय, स्कन्धोत्तम्भिततीर्थवारिकलशाः = स्कन्धेनोत्तम्भिता, उत्थापिताः तीर्थवारिकलशा यैः ते, माद्रीसुताधिष्ठिताः=नकुलसहदेवाध्यक्षा, धृष्टद्युम्नमुखाः=द्रुप- दपुत्रप्रधाना, सैन्यपतयश्च अनुपदमिवेत्यस्याध्याहारः तथा च ते अनुपदमेव, प्राप्ता झटित्येवागच्छन्तीति भावः । नतु उपस्थिता सन्तीत्यर्थो युक्तः, अहं पुनरित्याद्यग्रिम- ग्रन्थविरोधात् पूर्वं तेषामागपने त्वरिततरत्वं विहन्येतेति । क्वचित्पुस्तकेऽयं श्लोको नास्ति परमैतदर्थंकगद्यमेवास्ति । शार्दूलविक्रीडितं छन्दः ॥ ४४ ॥ उपलब्ध्ध=ज्ञात्वा, त्वरिततम = अतिशीघ्रम् । एवम्=भीमः पराजित इत्यादिप्रकारेण, विप्रलब्धाः=वञ्चिताः । धार्तराष्ट्रसखः=दुर्योधनमित्रम्, राजाहःसखिभ्यः' इति टच्; पुण्यजनापसदः= राक्षसेषु नीचः 'पुण्यजनो, नैर्ऋतो यातुराक्षसी' इत्यमरः । निगृहीतः=बद्धः, समीहितम् = अभिलषितम् । नियन्त्रण में धृष्टद्युम्न प्रभृति सेनापति तथा आज्ञारत मागध, मत्स्य और यदुवंशियों के साथ कन्धे पर तीर्थजल से पूर्ण कलश रखे हुए आपके राज्याभिषेक के लिए आए हुए हैं ॥ मैं यह देख कर कि आप चार्वाक राक्षस के कपटों से व्याकुल हो रहे हैं, अर्जुन को लेकर शीघ्र ही आया हूं । युधिष्ठिर—चार्वाक राक्षस के द्वारा क्यों हम लोग प्रतारित हुए ? भीमसेन—( क्रोधपूर्वक ) दुर्योधन का मित्र तथा राक्षसों में नीच वह राक्षस कहाँ है ? जिसने महाराज को व्याकुल कर दिया । कृष्ण—नकुल के द्वारा वह दुष्ट पकड़ लिया गया है । अतः कहिए महाराज, इसके