वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 349, कुल 355 में से
संदर्भ में पढ़ेंइदं च विदग्धस्निग्धवियोगदुर्मनसा विप्रलपितं तेन कविना- .काव्यालापसुभाषितव्यसनिनस्ते राजहंसा गता- अन्वयः —ते, काव्यालापसुभाषितव्यसनिनः, राजहंसाः, गताः, ताः, गोष्ट्यः, क्षयम्, आगताः, सताम्, वाचः, गुणलवश्लाघ्याः न, कवीनाम्, सालङ्काररसप्रसन्नम- धुराकाराः, गिरः नाशम्, प्राप्ताः, भूमिवलये, अयन्तु, महान्, प्रबन्धः जीयात् ।। विदग्धस्निग्धवियोगदुर्मनसा = विदग्धाः चतुराः स्निग्धाः वत्सलाः तेषां यो वियोगः, साम्प्रतं गुणज्ञानामेतादृशपुरुषाणामभावादिति भावः । तेन दुर्मनाः दुःखित- चेताः तेन, कविना भट्टनारायणेन, विप्रलपितम् = दुःखालापः कृतः । साम्प्रतं मन्नि- र्मितकवितास्वादं कः कारयतीति, विप्रलापहेतुः । विप्रलापमेवाह —काव्यालापेति । ते प्रसिद्धा राजादयः, काव्यालापसुभाषितव्यस- निनः=काव्यानां दोषाभावविशिष्टगुणादिविशिष्टशब्दार्थयुगलानाम्, तदुक्तं काव्यलक्षणं प्रकाशकृता—'तददोषौ शब्दार्थौ सगुणावनलङ्कृती पुनः क्वापि' इति । तस्यायमर्थः—तत् काव्यम्, शब्दार्थौ, शब्दार्थयुगलमित्यर्थः । न चैवं काव्य- पदस्य प्रवृत्तिनिमित्तं व्यासज्यवृत्तिः स्यादिति वाच्यम्, इष्टापत्तेः, आस्वादव्यञ्जक- त्वस्योभयत्रापि तुल्यत्वात् । अत एव काव्यं पठितं काव्यं बुद्धमित्युभयविधलोक- व्यवहारः संगच्छते । यत्तु रसगङ्गाधरकृता काव्यपदप्रवृत्तिनिमित्तस्य व्यासज्यवृत्तित्वे एकस्मिन् द्वित्वावच्छिन्नप्रतियोगिताकभेदस्य सत्त्वेन एको न द्वौ इति व्यवहारवत्, श्लोकवाक्यं न काव्यमिति व्यवहारापत्तिः । यदि च शब्दार्थप्रत्येकपर्याप्तत्वमेव काव्य- पदवृत्तिनिमित्तम् तदैकस्मिन् पद्ये काव्यद्वयव्यवहारापत्तिः, तस्मात् वेदत्वादिवत् रमणीयार्थप्रतिपादकः शब्दः काव्यम् । इति शब्दमात्रनिष्ठत्वमेव काव्यलक्षण- स्योक्तम् तन्नु तत्रैव मर्मप्रकाशटीकायां आस्वादव्यञ्जकत्वस्योभयत्रा विशेषादित्यादिना अनुभवव्यवहारविरुद्धमिदमिति प्रतिपादितमस्ति वेदपदप्रवृत्तिनिमित्तस्यापि शब्दा- र्थोभयवृत्तित्वमेव प्रतिपादितं 'तदधीते तद्वेद' इति पाणिनिसूत्रे भगवता पतञ्जलिना, यद्यपि दर्पणकृता—'वाक्यं रसात्मकं काव्यम्' इति काव्यलक्षण- मुक्तं तदपि, आग्रहमूलकमेव रसाभासाद्यात्मककाव्येऽव्याप्तेः । इष्टापत्तिस्तु न मन्त- वति कविसम्प्रदायभङ्गप्रसङ्गात् । अत एव महाकविवर्णितकपिकुलचरितान्यपि : काव्यानि । त्वन्मते तत्र रसाभावेन काव्यत्वं न स्यात् । यथाकथञ्चित् परम्परया रसस्पर्शस्य काव्यत्वप्रयोजकत्वे 'गौश्चरति', 'मृगो धावति' इत्यादेरपि काव्यत्वमा- पद्येति । दोषविशिष्टेऽतिव्याप्तिवारणाय अदोषविति लक्षणे निवेशः। न चादोषत्वं यत्किञ्चिद्दोषाभावः, दोषसामान्याभावो द्वौ वा । नाद्य । यत्किञ्चिदभावस्य सर्वत्र