भारतकोश
वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)

Venisamhara Nataka of Bhatta Narayana with Commentary

भट्ट नारायण द्वारा

DevanagariHindipublished355 पृष्ठ

पृष्ठ 350, कुल 355 में से

संदर्भ में पढ़ें
पृष्ठ 350

षष्ठोऽङ्कः ] प्रबोधिनी-प्रकाश-द्वयोपेतम् ३३१ स्ता गोष्ठ्यः क्षयमागता गुणलवश्लाघ्या न वाचः सताम् । सालङ्काररसप्रसन्नमधुराकाराः कवीनां गिरः सुलभतया व्यावर्तकत्वापत्तेः । नान्त्यः 'तथाभूतां दृष्ट्वे' त्यादेरपि काव्यत्वानापत्तेः, तत्रापि न्यूनपदत्वदोषस्य सत्त्वात् । इष्टापत्तिस्तु न सम्भवति, प्रकाशकृतेव तृतीयो- ल्लासे 'तयाभूतामि' त्यत्र काकुसहकृतार्थध्वनित्वस्योक्तत्वादिति वाच्यम्, अदोषेत्यस्य रसोद्बोधविरोधि-दोषाभावे तात्पर्यात् । तथा च यत्र यस्य दोषस्य रसोद्बोध- विरोधित्वं तद्दोषत्वे न काव्यत्वं यत्र च न तादृग्दोषस्तत्र काव्यत्वमिति सहृदया एव प्रमाणम् । निर्गुणेऽतिव्याप्तिनिरासाय सगुणाविति । माधुर्यादिगुणवन्तौ काव्य- मित्यर्थः । यद्यपि गुणानां रसमात्रनिष्ठत्वेन शब्दार्थयोर्गुणवत्वमसम्भवि, तथापि स्वव्यञ्जकत्वसम्बन्धेन तत्र तेषां सत्त्वमिति न काऽप्यनुपपत्तिः निरलङ्कारेऽतिव्या- त्तिनिरासाय-अनलङ्कृतीति । अस्यायमर्थः-सर्वत्र सालङ्कारावेव काव्यम्-कुत्रापि स्फुटालङ्काररहितावपि, 'अलवणा यवागूरि' तिवद् नञोऽल्पार्थकत्वात् । अत्राल्पत्वम- स्फुटत्वमेव । अन्यस्य, निर्वक्तुमशक्यत्वात्-तथाच-नीरेऽपि अस्फुटालङ्कारसत्त्वे काव्यत्वप्रसक्तावपि न कश्चिद्दोषः । प्रदीपकारास्तु-रसादिलङ्कारश्च द्वयमेव चम- त्कारहेतुः एवञ्च यदि यत्र न रसादिः न वा स्फुटालङ्कारः तत्र चमत्कारहेतोरभावान्न काव्यत्वमित्याहुः । वयन्तु मन्यामहे-तत्रास्फुटालङ्कार एव चमत्कारहेतुः, अलङ्कार- मात्रस्यैव चमत्कारहेतुत्वात् । तत्र स्फुटत्वास्फुटत्वयोरकिञ्चिकरत्वादिति । अत्र युक्तायुक्तत्वे सहृदयाः स्वयमेव विभावयन्विति संक्षेपः प्रकृतमनुसरामः । एतादृशानां काव्यानां य आलापः सम्भाषणानि तेषु यत्सुभाषितम् तत्र यद्व व्यसनम् आसक्तिः तदस्त्यस्येति 'अत इनिठनौ' इतीन्प्रत्ययः । ते, राजहंसाः = श्रेष्ठनृपाः, गता क्षयमित्यस्यात्राप्यन्वयः । विनष्टा इत्यर्थः । ताः, गोष्ठ्यः विवेच- कानामित्यादि । क्षयम् = विनाशम्, आगताः मत्कवितानां क्षीरवत् गुण- ग्राहका न केऽपि सन्तीति भावः । सताम् = सज्जनानाम्, वाचः, गुणलवश्लाघ्याः = गुणस्य लवेन कणेनापि श्लाघ्याः प्रशंसनीयाः न, भवन्ति, कवीनाम् = उत्तम- प्रबन्धकारिणाम्, सालङ्काररसप्रसन्नमधुराकाराः = सालङ्काराः अलङ्कारसहिताः, अलङ्कारत्वञ्च-रसादिभिन्नव्यङ्ग्यभिन्नत्वे सति शब्दार्थान्यतरनिष्ठा या विषयित्व- सम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकता तदवच्छेदकत्वम् । भवति च अनु- प्रासादिविशिष्टशब्दज्ञानात्, उपमादिविशिष्टार्थज्ञानाच्च चमत्कारोदय इति विष- यित्वसम्बन्धावच्छिन्ना चमत्कारिजनकताविच्छेदकतया तादृशे शब्दे अर्थे च तदव- च्छेदकत्वमनुप्रासादौ, उपमादौ चेति लक्षणसमन्वयः । व्यङ्ग्ये रसादिभिन्नत्वनिवे- शान्न रसवदलङ्कारासङ्ग्रहः । तादृशव्यङ्ग्यभिन्नत्वनिवेशान्न व्यङ्ग्योपमासङ्ग्रहः ।