वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 351, कुल 355 में से
संदर्भ में पढ़ें३३२ वेणीसंहारं नाटकं प्राप्ता नाशमयं तु भूमिवलये जीयात्प्रबन्धो महान् ॥ ४७ ॥ समाप्तमिदं वेणीसंहारं नाम नाटकम् । रसप्रसन्नाः रसान्विताः अत एव मधुरा मधुरस्वरूपाः, गिरः = उक्तयः, नाशम्, प्राप्तः, गुणग्राहकव्यक्त्यभावादिति भावः अतः, भूमिवलये = भूमण्डले, अयम् = मदीयः, महान् = रसालङ्कारादिसंयुतः तुशब्दः पूर्वव्यच्छेदकः, प्रबन्धः = कविता, जीयात् = उत्कृष्टत्वेन वर्तताम् । अनेन प्रबन्धेन मम कीर्तिलाभः प्रसन्नता च भवत्विति कवेराशयः तदुक्तमग्निपुराणे व्यासदेवेन— निर्दोषं गुणवत्काव्यमलङ्कारैरलङ्कृतम् । रसान्वितं कविः कुर्वन् कीर्तिं प्रीतिञ्च विन्दति ॥ इति । एतादृशं मदीयमपि काव्यमिति गूढाभिप्रायः । शार्दूलविक्रीडितं छन्दः ॥ ४७ ॥ उमरावाङ्गसम्भूतं नरसिंहस्य जन्मभूम् । अनहेरं कुलपतिं नौमि तं प्रपितामहम् ॥ १ ॥ विद्वद्वृन्दविलासिता भगवती संराजते सर्वदा । यतास्ते च विशालभालललिता लक्ष्मी स्वयं सुस्थिरा । पुण्ये तत्'पटसा'ख्यपत्तनवरे श्रीद्वारवङ्गस्थिते सानन्दं मृदुचेतसा निवसत। व्याख्या मया पूरिता ॥ २ ॥ ॥ इति प्रबोधिनीव्याख्या समाप्ता ॥ समाप्तश्चायं ग्रन्थः