वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 8, कुल 355 में से
संदर्भ में पढ़ें[ ७ ] टीकाकारः सर्वान् विषयान् सरलतया सन्निवेशयन् ग्रन्थस्याभिप्रायं मृदुशब्दे समुपपादयन् ग्रन्थस्य काठिन्यं सुदूरं समुदक्षिपदिति मन्यामहे वयम् । अपरा चात्र प्रकाशनाम्नी हिन्दीटीकाऽपि विलसति । यस्याः सन्निवेशेन सुकोमल- मतयोऽपि छात्रा नेषदप्यर्थावगमक्लेशमनुभविष्यन्ति । कविकुलमूर्द्धन्योऽयं कस्मिन् समये कं देशं कं वंशं स्वजनुषा भूषयाञ्चकारे- त्यस्मिन् विषये दृढतरप्रमाणमनासाद्य विषीदन्ति मे मनांसि । केचन मन्यन्ते—द्विजोत्तमोऽयं गुप्तराज्यकाले- ( ४०० ) चतुर्थख्रिष्टीय- शताब्द्यां प्रादुर्बभूव । केचित्तु काव्यालङ्कारसूत्रस्य काशिकायाश्च प्रणेतु- र्भट्टवामनात्प्राचीनोऽयं ( ५०० ई० ) पञ्चम्यां वा ( ६०० ई० ) षष्ठ्यां वा ख्रिष्टाब्द्यां जननमासादयामास । भट्टवामनस्य समयश्च ( ७०० ई० ) सप्तमख्रिष्टाब्द्या अन्तः वेल्वल्करमहाशयेन निर्णीतः । भट्टवामनात्प्राचीनो भट्टनारायण इत्यत्र भट्टवामनस्य ग्रन्थे वेणीसंहारपद्यानामुल्लेख एव प्रमाणमिति । --परमानन्दशास्त्री