वेणीसंहारम् (भट्ट नारायण - संस्कृत मूल एवं सान्वय हिन्दी व्याख्या)
Venisamhara Nataka of Bhatta Narayana with Commentary
भट्ट नारायण द्वारा
पृष्ठ 9, कुल 355 में से
संदर्भ में पढ़ेंअत्र किञ्चिद्वक्तव्यम् आचार्य श्री ब्रह्मदत्तद्विवेदी (प्रिंसिपल, रामनिरञ्जनदासमुरारका-संस्कृत कालेज, पटना सिटी) न्याय-व्याकरणाचार्य पं० रामदेवझामहाशयैर्विनिर्मितया प्रबोधिन्याख्य- व्याख्यया संवलितं वेणीसंहारनाटकं परीक्षणस्पृशा दृशा निरीक्ष्य परमानन्द- सन्दोहमविन्दम्। अन्वय - प्रतिशब्द - कोश-भावार्थ-छन्दोऽलङ्कारप्रभृतिविविधविषयाणां समीचीनतया सङ्कलनेन रुचिररचनाञ्चितमनोहरकलेवरमिदं पुस्तकं विपश्चि- ताञ्चिरं प्रचुरमन्तः सन्तोषमाधातुमीष्टे। विशेषतोऽश्रमं परीक्षाकान्तारमन्ते- वसतः प्रविविक्षून, अविचिकित्समुपकरिष्यतीति दृढं विश्वसन्नभ्युदीयमानाय टीकाकर्त्रे परश्शतान् धन्यवादान् वितरति। इत्यलं पल्लवितेन। निवेदनम् अयि-विद्याविनोदविद्योतितमानसा मान्या विद्वज्जनाः सुहृज्जनाश्च! छात्रक्लेशदर्शनेन दोदूयमानचेतास्तान् परीक्षान्धिं पारयितुकामोऽस्य व्याख्या- विरचने पं० श्रीदेवनारायणझामहाशयेन प्रोत्साहितः, पं० श्रीवालकृष्णझा- महोदयस्य, व्याकरणाचार्य पं० श्रीरामचन्द्रझामहोदयानाञ्च साहाय्येन सम्पाद्य प्रबोधिनी व्याख्यासंवलितमिदं वेणीसंहारनाटकं भवतां समक्षं समु- पाययन्, महानुभावत्रितयाय प्रकृतग्रन्थप्रकाशनेन छात्राणां विदुषां च महान्त- मुपकारं विरचयते चौखम्बासंस्कृत-पुस्तकालयाध्यक्षाय, श्रेष्ठिवरश्रीजयकृष्ण- दासगुप्तमहोदयाय च धन्यवादान् समर्पयन्, पुरुषसाधारणबुद्धया, समुपस्थिता- नत्रत्यदोषान् स्वमहिम्ना परिमार्जयितुं समभ्यर्थयेऽहं तत्रभवतः श्रीमत इति। टीकाकारः