विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 102, कुल 493 में से
संदर्भ में पढ़ें( ७९ ) यद्वैरिसामन्तनितम्बिनीनामश्रान्तसन्तापकदर्थ्यमाने । पराङ्मुखं शोषविशङ्कयेव कुचस्थले कुङ्कुमपङ्कमासीत् ॥१०५॥ अन्वयः यद्वैरिसामन्तनितम्बिनीनाम् अश्रान्तसन्तापकदर्थ्यमाने कुचस्थले शोष- विशङ्कया इव कुङ्कुमपङ्कं पराङ्मुखम् आसीत् । व्याख्या यस्याऽऽहवमल्लदेवस्य वैरिसामन्ताः शत्रुनृपास्तेषां नितम्बिनीनामङ्गनाना मश्रान्तो निरन्तरश्चासौ सन्तापश्च सञ्ज्वरश्च 'सन्तापः संज्वरः सनी' इत्यमरः । तेन कदर्थ्यमाने दुर्दशामापन्ने तप्ते इत्यर्थः । कुचस्थले स्तने शोषस्य शोषणकर्मणो विशङ्कयेव सन्देहेनेव, कुचयोः शुष्कत्वं कुङ्कुमलेपजन्योष्णत्वेन माभूदिति हेतोः कुङ्कुमपङ्कं पराङ्मुखमासीत् नोपलिप्तमित्यर्थः । पतिविरहात्कुङ्कुमलेपादी- नामभावः । अत्र कुचस्थले कुङ्कुमलेपस्य पराङ्मुखत्वे स्तनयोः शोषशङ्काया हेतुत्वेनोत्प्रेक्षणाद्धेतूत्प्रेक्षा । भाषा जिस राजा के विपक्षी सामन्तों की नारियों के निरन्तर दुःख से दुर्दशा को प्राप्त, स्तन, कहीं सूख न जांय इस सन्देह से मानो उन पर केसर का लेप नहीं किया गया था । अर्थात् पतियों के मर जाने से केसर का लेप आदि शृङ्गार बन्द हो गया था । एकत्र वासादवसानभाजस्ताम्बूललक्ष्म्या इव संस्मरन्ती । वक्त्रेषु यद्वैरिविलासिनीनां हासप्रभा तानवमाससाद ॥१०६॥ अन्वयः यद्वैरिविलासिनीनां वक्त्रेषु हासप्रभा एकत्र वासात् अवसानभाजः ताम्बूललक्ष्म्याः संस्मरन्ती इव तानवम् आससाद । व्याख्या यस्य राज्ञो वैरिविलासिनीनां विपक्षाङ्गनानां वक्त्रेषु वदनेषु विद्यमाना हासस्य हास्यस्य प्रभा कान्तिरेकत्रवासात्तत्रैव वदनेषु विद्यमानयाताम्बूललक्ष्म्या