भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 104, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 104

( ८१ ) रत्नोत्करग्राहिषु यद्भटेषु तटत्रुटन्मौक्तिकशुक्तिभङ्ग्या । अस्फोटयत्तीरशिलातलेषु रोषेण मूर्धानमिवाम्बुराशिः ॥१०८॥ अन्वयः अम्बुराशिः यद्भटेषु रत्नोत्करग्राहिषु (सत्सु) तटत्रुटन्मौक्तिकशुक्ति- भङ्ग्या तीरशिलातलेषु रोषेण मूर्धानम् अस्फोटयत् इव । व्याख्या अम्बूनां जलानां राशिस्समुद्रो यस्य राज्ञो भटेषु योधेषु रत्नानामुत्कराः समूहास्तेषां ग्राहिषु सत्सु स्वायत्तीकृतवत्सु सत्सु तटेषु त्रुटन्ति स्फुटितानि मौक्तिकानि याभ्यस्ताः शुक्तयस्तासां भङ्ग्या व्याजेन तीरे तटे यानि शिलातलानि प्रस्तरभूमयस्तेषु रोषेण कोपेन मूर्धानं शिरसमस्फोटयदिवाखण्ड- यदिब । अत्राऽपन्हतिमूलकोत्प्रेक्षालङ्कारः । समुद्रे शिरस्फोटनस्य क्रियाया उत्प्रेक्षणादुत्प्रेक्षा । नेमा स्फुटितमुक्ताशुक्तयः किन्तु समुद्रकर्तृकशिरस्फोट- नमिति प्रतीत्या प्रतीयमानाऽर्यापन्हुतिरुत्प्रेक्षाङ्गम् । 'प्रकृतं यन्निषिध्यान्य- त्साध्यते सात्वपन्हुतिः।' भाषा जिस राजा के योद्धाओ के, समुद्र के रत्न समूहों को ले लेने पर, तट पर पडी हुई मोती निकाली, सीपो के भिष से मानो समुद्र ने क्रोध से किनारे के पत्थरो पर माथा पटक २ कर अपना सिर टुकडे २ कर डाला । यं वीक्ष्य पाथोधिरधिज्यचापं शोणारमभिः शोषितशोणदेहेः क्षोभादमीक्ष्णं रघुराजवाण-जीर्णव्रणस्फोटमिवाचचक्षे ॥१०६ अन्वयः पाथोधिः अधिज्यचापं यं वीक्ष्य शोणितशोणदेहेः शोणा अभीक्ष्णं क्षोभात् रघुराजवाणजीर्णव्रणस्फोटम् इव आचचक्षे । व्याख्या पायांसि जलानि धीयन्तेऽस्मिन्निति पाथोधिः समुद्रो ज्या मौर्वीग धिज्यचापो धनुर्यस्य तं यं नृप वीक्ष्याऽऽलोक्य शोणितबद्धधिरवत् स