विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 114, कुल 493 में से
संदर्भ में पढ़ें( ११ ) अन्वयः यस्मिन् पुरन्ध्रीगण्डस्थलकान्तिसम्पदा कातररश्मिमण्डलः क्षपाकरः विकीर्णसंमार्जनभस्मरेणुना मुकुरेण तुल्यतां बिभर्ति । व्याख्या यस्मिन्नगरे पुरन्ध्रीणां पतिव्रतास्त्रीणां 'पुरन्ध्री सुचरित्रा तु सती साध्वी पतिव्रता' इत्यमरः । गण्डस्थलस्य कपोलस्थलस्य कान्तीनां रुचीनां संपदा समूहेन कातर हतप्रभ रश्मिमण्डलं किरणजालं यस्य सः 'किरणप्रग्रहौ रश्मी- त्यमरः । क्षपाकरश्चन्द्रः 'नक्षत्रेशः क्षपाकरः' इत्यमरः । विकीर्णः पतितः समाtypes/मार्ज/नस्य गृहसमार्जनस्य भस्मरेणुर्धूलिर्यस्मिंस्तं तेन मुकुरेण दर्पणेन 'दर्पणे मुकुरादर्शौ' इत्यमरः । सह तुल्यतां समानतां बिभर्ति धारयति । उपमा- लङ्कारः । भाषा जिस नगर में सती स्त्रियों के कपोलस्थल की कान्ति के आधिक्य से हतप्रभ किरण समूह वाला चन्द्रमा, झाडू देन में उडी हुई धूली के कणों से आच्छादित ऐने के समान दिखाई देता था । विलासदोलायितदन्तपत्रयोः क्षपासु यत्रेन्दुरलक्ष्यमण्डलः । प्रविश्य संक्रान्तिमिषेण योषितां कपोलयोः कान्तिजलं विलुम्पति ॥४॥ अन्वयः यत्र क्षपासु संक्रान्तिमिषेण प्रविश्य विलासदोलायितदन्तपत्रयोः योषितां कपोलयोः अलक्ष्यमण्डलः इन्दुः कान्तिजलं विलुम्पति । व्याख्या यत्र पुरे क्षपासु रात्रिषु विलासे स्वैरक्रीडायां दोलायिते दोलावदाचरिते पुरःपश्चाद्गतागते दन्तपत्रे ताटङ्कौ ययोस्तयोर्योषितां नारीणां 'स्त्रीयोषिदबला योषा नारी सीमन्तिनी वधू' इत्यमरः । कपोलयोर्गण्डस्थल्योरलक्ष्यमविज्ञातं मण्डलं बिम्बं यस्य स इन्दुश्चन्द्र संक्रान्तिमिषेण प्रतिबिम्बव्याजेन प्रविश्य गत्वा कान्तिजलं लावण्यामृतं विलुम्पति पिबति । चन्द्रतोऽधिककान्तिमत्त्वात्कपोलयो- त्पतितस्य चन्द्रप्रतिबिम्बस्य व्याजेनेन्दु कामिनीनां स्वकान्तिविवृद्ध्यर्थं लावण्या-