विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 118, कुल 493 में से
संदर्भ में पढ़ें( ९५ ) 'पहिनाने जाने पर चांदी की कपूर की डिबिया के सदृश शुभ्रवर्ण चन्द्रमा यहां है, ऐसा चन्द्रपत्नी रोहिणी को सन्देह हुआ करता था । यदीयलौलास्फटिकस्थलीभुवाममुग्धदुग्धान्धिसमत्विषां पुरः । दवाग्निनिर्दग्धवनस्थलोपमं विलोक्यते कज्जलकशमलं नभः ॥६॥ अन्वयः अमुग्धदुग्धाब्धिसमत्विषां यदीयलीलास्फटिकस्थलीभुवां पुरः कज्जल- कश्मलं नभः दवाग्निनिर्दग्धवनस्थलोपमं विलोक्यते । व्याख्या अमुग्धः स्वच्छश्चासौ दुग्धाब्धिः क्षीरसागरस्तेन समाः समानास्त्विषः कान्तयो यासां ता यदीयाः कल्याणपुरसम्बन्धिन्यो लीलाया विलासस्य क्रीडार्थ- मारचिताः स्फटिकस्थलयः स्फटिकमणिनिर्मितभूमयस्तासां पुरोऽग्रे कज्जल- वत्कश्मलं श्यामवर्णं नभ आकाशं दवाग्निना दावानलेन निर्दग्धं भस्मीकृतं वनस्थलमरण्यप्राग्तस्तस्योपमासादृश्य यस्य तद्वद्विलोक्यते दृश्यते । स्फटिक- स्थल्याकाशयोर्नैर्मल्यसामान्यत्वेऽपि स्फटिकस्थल्याः शुभ्रवर्णत्वादधिकसौन्दर्य- 'मिति भावः । ततश्च व्यतिरेकध्वनिः । भाषा निर्मल क्षीर सागर के समान शुभ्र कान्ति वाले जिस कल्याण पुर के स्फटिक के बने हुवे क्रीडाङ्गणों के सामने कज्जल के ऐसा काला आकाश दावानल से जले हुए वनस्थल के समान दिखाई देता था । तटद्रुमाणां प्रतिबिम्बमालया सपारिजातामिव दर्शयञ्छ्रियम् । स यत्तडागः कुरुते विडम्बनां गृहीतसारस्य सुरैः पयोनिधेः ॥१०१॥ अन्वयः सः यत्तडागः तटद्रुमाणां प्रतिबिम्बमालया सपारिजातां श्रियं दर्शयन् सुरैः गृहीतसारस्य पयोनिधेः विडम्बनाम् इव कुरुते । व्याख्या सः प्रसिद्धो यस्य कल्याणपुरस्य तडागस्सरस्तटद्रुमाणा तीरस्थवृक्षाणां