भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 119, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 119

( ९६ ) तडागे प्रतिबिम्बानां प्रतिच्छायानां गत्या पंक्त्या पारिजातैरनेककल्पवृक्षैः सहितां युक्तां श्रियं शोभां दर्शयन् विज्ञापयन् सुरैर्देवैर्गृहीतसारस्यापहृतकल्प- वृक्षस्य पयोनिधेः समुद्रस्य विडम्बनामुपहासमिव कुरुते । समुद्रात्तु पारिजातस्यै- कस्यैवोत्पत्तिः सोऽपि देवैरपहृत इति समुद्रो निस्सारः । अस्मिंस्तडागेत्वनेके- कल्पवृक्षाः परिदृश्यन्ते केनाऽपि हृताश्च नेति समुद्रात्स्योत्कर्ष परिहासस्य बीजम् । अत्रोत्प्रेक्षालङ्कारो गम्यः । भाषा जिस कल्याणपुर का तालाब, तटपर के वृक्षो की परछाही पड़ने से अपन भीतर अनेक कल्पवृक्ष होने की शोभा दिखाता हुआ, देवताओ द्वारा कल्पवृक्ष निकाल लिए गए हुए समुद्र की मानो हंसी उड़ा रहा है । प्रतिक्षणं क्षालितमन्युना रणे प्रयुक्तरक्षस्य नृपेण मानिना । न यस्य कक्षां शतमन्युरक्षिता पुरी पुराग्रहरस्य गाहते ॥११॥ अन्वयः शतमन्युरक्षिता पुरी रणे प्रतिक्षणं क्षालितमन्युना मानिना नृपेण प्रयुक्तरक्षस्य पुराग्रहरस्य यस्य कक्षा न गाहते । व्याख्या शतं मन्यवो ऋतयो क्रोधाश्च यस्य सः शतमन्युरिन्द्रः 'मन्युर्दन्ये ऋतौ क्रुधि ।' इत्यमरः । 'जिष्णुर्लेखर्षभः शक्र. शतमन्युर्दिवस्पतिः ।' इत्यमरः । तेन रक्षिता पालिता पुरी अमरावती नगरी रणे युद्धे प्रतिक्षणं निरन्तरं क्षालितो दूरीकृतो मन्युः क्रोधो येन स तेन निर्मन्युना ऋतुरहितेन वा मानिना सगर्वेण, 'गर्वाभिमानोऽहङ्कारोमानश्चित्तसमुन्नतिः ।' इत्यमरः । नृपेण राज्ञाऽऽहवमल्ल- देवेन प्रयुक्ता कृता रक्षा यस्य तस्य पुराणां 'निर्धारणे षष्ठी' नगराणां मध्ये प्राग्रहरस्य श्रेष्ठस्य यस्य कल्याणपुरस्य कक्षां साम्यं न गाहते न प्राप्नोति । शतक्रतुकारिणा शतकोपकारिणा चेन्द्रेण यत्कार्यं क्रियते तत्कार्यमनेनाऽऽहवमल्ल- देवराजेन निर्मन्युर्नय यज्ञरहितेनाऽपि यज्ञानुष्ठानादिकं विनैव साध्यत इतिभावः । अत्र व्यतिरेकालङ्कारः । 'अधिक्यमुपमेयस्योपमानान्न्यूनता तया ।' भाषा एक सौ यज्ञ करने वाले और सैकडो बार क्रोध करने वाले इन्द्र से रक्षित