विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 127, कुल 493 में से
संदर्भ में पढ़ें( १०४ ) भाषा जहां कामदेव की शय्या रचना, रति स्वरूप रत्नसम्पत्ति होने से समुद्रतट, रतिस्वरूप बिजली से युक्त होने से मेघमण्डली, और रति स्वरूप विलास युक्त ताराओं की माला होने से आकाश स्थली शोभित है । त्यजन्ति हंसाः सरसीगुणैः स्थितिं न यत्र वर्षास्वपि हर्षगद्गदाः । अलङ्घनीयस्य निकाममुन्नतेर्दिशन्ति वप्रस्य यशस्तु दुर्जनाः ॥२२॥ अन्वयः यत्र हर्षगद्गदाः हंसाः सरसीगुणैः वर्षासु अपि स्थितिं न त्यजन्ति । दुर्जनाः तु अलङ्घनीयस्य वप्रस्य निकामं उन्नतेः यशः दिशन्ति । व्याख्या यत्र पुरे हर्षेणाऽऽनन्देन गद्गदाः पुलकिता हंसा सरसीनां कासाराणां 'पद्माकरस्तडागोऽस्त्री कासार सरसी सरः' इत्यमरः । गुणैर्नैर्मल्यादिगुणैर्वर्षास्वपि वर्षर्तुष्वपि स्थितिं निवासं न त्यजन्ति न मुञ्चन्ति । वर्षाकाले मानसं यान्ति हंसा इति नियमान्मानसं न यान्तीति भावः । दुर्जना अलङ्घनीयस्य पार कर्तुमयोग्यस्य वप्रस्य प्राकारस्य निकाममत्यन्तमुन्नतेरुच्छ्रायस्य यशः कीर्ति दिशन्ति कुर्वन्त्यारोप- यन्तीत्यर्थः । दुर्जनाः परनिन्दाकुशलाः सरसीगुणान्विहाय वर्षासु हंसानां मानसाऽ- गमने प्राकाराणामोन्नत्यमेव कारणमुद्घोषयन्तीति भावः । अत्राऽतिशयोक्त्य- लङ्कारः । भाषा जहां आनन्द मग्न हंसगण वर्षाऋतु में भी तलाबो का पानी गदला न होने से, अन्य स्थानों के हंसों के सदृश मानससरोवर को न जाकर वही रहते थे । दुर्जन लोग जो कभी किसी के गुण की प्रशंसा नहीं करते वे हंसों के अन्यत्र न जाने में इस नगर की चहार दिवारी की उंचाई का यश गाते थे । अर्थात् उस नगरी के अत्यन्त रमणीय सरोवर की प्रशंसा न कर वप्र की ऊँचाई की प्रशंसा करते थे । निशासु यत्रोन्नतसौधसङ्गतिं विगाहमानस्य विधोः कुरङ्गकः । वतंसदूर्वाङ्कुरमेणचक्षुषां ग्रहीतुमाकाङ्क्षति वक्रकन्धरः ॥२३॥