विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 128, कुल 493 में से
संदर्भ में पढ़ें( १०५ ) अन्वयः यत्र निशासु उन्नतसौधसंगतिं विगाहमानस्य विधोः कुरङ्गकः वक्रकन्धरः ऽ(सन्) एणचक्षुषां वतसदूर्वाङ्कुरं ग्रहीतुम् आकाङ्क्षति। व्याख्या यत्र पुरे निशासु रात्रिषु उन्नता अत्युच्चा प्रासादा राजसदनानि तेषां सङ्गतिं समागमं विगाहमानस्य विदधतो विधोश्चन्द्रस्य कुरङ्गक कलङ्करूपमृगो वक्रा वक्रीकृता कन्धरा ग्रीवा येन स एवम्भूतस्सन् एणचक्षुषां मृगनयनानामङ्गनानां वतंस आभूषणरूपश्चासो दूर्वाङ्कुरश्च तं "वतंस अद्वतंस । "वष्टि भागुरिरल्लो- पमवाप्योरुपसर्गयोः । आपं चैव हलन्तानां यथा वाचा निशा दिशा" इति । कर्णा- वतंसरूपं दूर्वाङ्कुरं ग्रहीतुं भक्षणार्थं स्वीकृतुमाकाङ्क्षत्यभिलषति । अत्रातिशयो- क्त्यलङ्कारः । भाषा जहां रात्रियों में, चन्द्र के, बहुत ऊंचे राजसदनों के समीप आने से, चन्द्रमा में का मृग, टेढ़ी गर्दन करके, मृगनयनी नारियों के कानों पर आभूषण के रूप में खोंसे हुवे दूब के अंकुर को खाने की इच्छा करता था । अवागुरं नेत्रकुरङ्गबन्धनं निरक्षरं पञ्चशरस्य शासनम् । गृहे गृहे यत्र विचित्रमन्वहं वितन्वते नृत्तमधीरलोचनाः ॥२४॥ अन्वयः यत्र अधीरलोचनाः गृहे गृहे अन्वहम् अवागुरं नेत्रकुरङ्गबन्धनं पञ्चशरस्य निरक्षरं शासनं विचित्रं नृत्तं वितन्वते । व्याख्या यत्र पुरेऽधीरे चञ्चले लोचने नेत्रे यासां तादृशश्चलनयना कामिन्यो गृहे गृहे प्रतिगृहमन्वहं प्रतिदिनं नास्ति वागुरा मृगबन्धनी यस्मिन्तदवागुरं नेत्राण्येव युवकजननयनान्येव कुरङ्गाः मृगास्तेषां बन्धनं बन्धनस्वरूपं पञ्चशरस्य कामस्य निरक्षरमक्षरोच्चारणरहितं शासनमाज्ञारूपं विचित्रमाश्चर्यकरं नृत्तं नृत्यं 'नृत्तं ताललयाश्रयम्' वितन्वते कुर्वन्ति । तासां नृत्तं दृष्ट्वा सर्वे युवान काम- मोहिता भवन्तीति भावः । अधिकारूढवैशिष्ट्य रूपकमलङ्कारः ।