विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 13, कुल 493 में से
संदर्भ में पढ़ेंचालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य । अहो ! महद्वंशसमाः किमन्यदगद्द्रुवोऽभूत्कलिकुञ्जरोऽयम् ॥ (३-३६) उक्तिरियं कालिदासस्य रघुवंशे यज्ञियमश्वमपहरन्तमिन्द्रं प्रति रघोः— त्रिलोकनाथेन सदा मखद्विषस्त्वया नियम्या ननु विध्यपस्रुपाः । स चेत्स्वयं कर्मसु धर्मचारिणां त्वमन्तरायो भवसि च्युतो विधिः ॥ (रघुवंश ३-४५) वचनमदं स्वप्रौढिप्रकर्षेणातिक्रामतीत्यत्र विदुषां नो विप्रतिपत्तिः । एवञ्चाऽन्यत्र विक्रमाङ्कदेवदिग्विजयवर्णनं रघुवंशस्थित रघुदिग्विजयवर्णनमनु- करोतीत्ययं विषयः काव्यद्वितयशीलिनां विमलमतीनां कृतिनां मतिपथे स्फुटमेवाऽवभासते । दोषवर्जनपूर्वकं सतां गुणग्राहकत्वं कीदृश्या विच्छित्त्याऽ- त्राऽष्टमे पद्ये दृष्टान्तालङ्कारेण प्रदर्शितम्— दोषजातमवधीर्य मानसे धारयन्ति गुणमेव सज्जनाः । क्षारभावमपनीय गृह्णते वारिधेः सलिलमेव वारिदाः ॥ (५-५१) अत्रैकत्र षष्ठसर्गस्येऽष्टमे पद्ये महाकविना "विललापे" ति प्रयोक्तव्यत्वे 'ललापे'ति प्रयुञ्जानेनाऽवाचकत्वं नाम दोषोऽपि प्रकाशितः । सप्तमसर्गीये चत्वारिंशत्तमे श्लोके "अक्षूणशब्दे" अप्रयुक्तत्वदोषः । परं तादृशि महाकवौ दूषणमिदं तस्य निरङ्कुशतामेव द्योतयति नत्वज्ञानम् । सोमदेवस्याश्वानामिदं जवसमुचितधावनानुरूपा किमिति कृता पृथुला न नाय ! पृथ्वी । नभसि खुरपुटैरिति स्फुरद्भिर्विधिमिव ये स्म मुहुः प्रतिक्षिपन्ति ॥ (६-४९) वर्णनं महाकविश्रीहर्षकृतमद्योलिखितं नैषधाश्ववर्णनमतिशेते । प्रयातुमस्माकमियं कियत्पदं परा तमम्भोभिरपि स्थलायताम् । इतीव वाहैर्निजवेगदर्पितैः पयोधिरोधक्षममुत्थितं रजः ॥ (१-६९) इति । एवञ्च— रयस्थितानां परिवर्त्तनाय पुरातनानामिह वाहनानाम् । उत्पत्तिभूमौ तुरगोत्तमानां दिशि प्रतस्थे रविरुत्तरस्याम् ॥ (७-६) इह महाकविनोत्प्रेक्षालङ्कारमाश्रित्य रवेरुदीचीगमनं येन चित्ताकर्षकविधानेन समुपवर्णितं तत्प्रशंसनीयमेव । सप्तमे सर्गे कविना वसन्तादिवर्णनं कुर्व्वता कमनीयं काव्यकौशलं प्रकाशितमिति दिक् ।