विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 134, कुल 493 में से
संदर्भ में पढ़ें( १११ ) अन्वयः गेहिनी यथा निर्व्याजम् अलीकहासिना अङ्कपर्यङ्कगतेन सुतेन शोभते तथा प्रियप्रसादेन विलाससम्पदा भूषाविभवेन (वा) न शोभते । व्याख्या गेहिनी गृहिणी गृहधर्मरता स्त्री यथा निर्व्याजं निष्कपटं यथास्यात्तथाऽलीक हासिनाऽनृतहासिना कारणमन्तरेव प्रकृत्या हासं कुर्वता 'अलीकं त्वप्रियेऽनृते' इत्यमर । अङ्क उत्सङ्ग एव पर्यङ्कः खट्वा 'अङ्को रूपकभेदाऽङ्कचिह्नरेखाजिभू- षणे । रूपकाज्ञातिकोशस्सङ्गस्थानेऽङ्क पापदु खयोरिति' मेदिनी । 'शयनं मञ्चपर्यङ्क- पल्यङ्काः खट्वया समा' इत्यमर । तद्गतेन सुतेन पुत्रेण शोभते सौभाग्यमालभ्यते तथा प्रियस्य पत्यु प्रसादेन प्रसन्नताप्रदर्शनेन विलासस्य भोगस्य सम्पदा विभवेन, भोग्यसुखसमृद्धिसामग्र्या भूषाया भूषणस्य विभवेन वैशिष्ट्येन वा न शोभते । भाषा गृहिणी जिस प्रकार कपट रहित स्वाभाविक हास्य करने वाले गोद रूपी पलङ्ग पर लेट हुए पुत्र से शोभित होती है वैसे न तो पती की प्यारी होने से, न उपभोग योग्य सुख समृद्धि की वस्तुओ से, न गहना कपड़ा पहनने से शोभित होती है । वहन्ति हिंस्राः पशवः कमात्मनो गुणं वितर्क्यात्मजरक्षणश्रमम् । पदार्थसामर्थ्यमचिन्त्यमीदृशं यदत्र विश्राम्यति निर्भरं मनः ॥३३॥ अन्वयः हिंस्राः पशवः आत्मनः कं गुणं वितर्क्य आत्मजरक्षणश्रमं वहन्ति । ईदृशम अचिन्त्यं पदार्थसामर्थ्यं यत् अत्र मनः निर्भरं विश्राम्यति । व्याख्या हिंस्रा हिंसकाः पशवो व्याघ्रादय आत्मनो स्वस्य क विशिष्टं गुणं प्रयोजनं वितर्क्य विमृश्याऽऽत्मजस्य पुत्रस्य रक्षणस्य भरणपोषणावधि पालनस्य श्रमं खेदं वहन्ति धारयन्ति । ईदृशमित्थंभूतमचिन्त्यमकथनीयमनुभवैकगम्यं पदार्थसामर्थ्यं पुत्रपदार्थाश्चर्यवत्त्वं यदत्र पुत्रे मनश्चित्तं 'चित्तन्तु चेतो हृदयं स्वान्तं हृन्मानसं मन' इत्यमर । निर्भरमत्यन्तं विश्राम्यति सन्तोषसुखं शान्तिञ्च लभते ।