विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 136, कुल 493 में से
संदर्भ में पढ़ें( ११३ ) व्याख्या नृपो राजा प्रतापेन प्रभावेण 'स प्रतापः प्रभावश्च यत्तेजः कोशदण्डजम्' इत्य- मरः । शौर्यादिगुणैर्वीरतादिगुणैश्चाऽलङ्कृतः सम्भूषितोऽपि कृतार्थतां जन्म- साफल्यं तावन्नोपैति प्राप्नोति यावत् दोष्णोर्भुजयोर्विक्रमेण पराक्रमेण लब्धोपा- र्जिता कीर्तिर्यशो येन तेन सुतेन पुत्रेण पुत्रिणां पुत्रवतां धुरि प्राधान्ये नाऽऽरोहति न परिनिष्ठितो भवति । भाषा राजा, प्रताप वीरता आदि गुणों से विभूषित होने पर भी तब तक अपने जन्म की सफलता को प्राप्त नहीं करता जब तक भुजबल के पराक्रम से कीर्ति को कमाने वाले पुत्र से पुत्रवान् लोगों में अग्रणी नहीं होता । निशम्य देवस्य नितान्तदुःखिता कथामिति श्रोत्रपथप्रमाथिनीम् । जगाद किञ्चिन्न नरेन्द्रसुन्दरी परं निशश्वास तरङ्गितालका ॥३६॥ अन्वयः इति श्रोत्रपथप्रमाथिनीं देवस्य कथां निशम्य नितान्तदुःखिता नरेन्द्र- सुन्दरी किञ्चित् न जगाद परं तरङ्गितालका (सती) निशश्वास । व्याख्या इतीत्थं श्रोत्रयोः कर्णयोः पन्था मार्गस्तस्य प्रमाथिनीं तां कर्णकुहरदुःखदायिनीं देवस्य राज्ञः कथां वार्तां निशम्य श्रुत्वा नितान्तमत्यन्तं दुःखिता पीडिता नरेन्द्रनन्दिनी राजमहिषी किञ्चित्किमपि न जगाद नोवाच परं केवलं तरङ्गिता इतस्ततः प्रक्षिप्ताः कुन्तलाः केशा यस्या सा सती निशश्वास दीर्घमुत्सृज्य श्वासं प्रवाहितवती । केशस्य स्थानच्युतिर्दीर्घनिश्वासश्च दुःखचिह्नम् । परमदुःखि- ताऽभूदित्यर्थः । भाषा इस प्रकार राजा की कर्णकटू बातें सुनकर अत्यन्त दुःखी रानी ने कोई उत्तर नहीं दिया । केवल बिखरे बालों वाली उस रानी ने जोर से सांस भरा ; अर्थात् अत्यन्त दुःखी हुई ।