विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 137, कुल 493 में से
संदर्भ में पढ़ें( ११४ ) स धीरमुर्वीन्दुधीरलोचनामथाङ्कमारोप्य कृपार्द्रमानसः । हरन्निवातङ्ककलङ्कमुज्ज्वल-द्विजावलीकान्तिजलैरवोचत ॥३७॥ अन्वयः अथ सः उर्वीन्दुः कृपार्द्रमानसः सन् अधीरलोचनां धीरम् अङ्कम् आरोप्य उज्ज्वलद्विजावलीकान्तिजलैः आतङ्ककलङ्कं हरन् इव अवोचत । व्याख्या अथाऽनन्तर स्वपत्न्या दुःखितदशानिरीक्षणानन्तरं सः प्रसिद्ध उर्व्याः पृथिव्या इन्दुश्चन्द्र. पृथिवीशोभादायको राजा कृपया दययाऽऽर्द्रं परिप्लुतं मानस मनो यस्य स एवम्भूतस्सन् अधीरे चञ्चले लोचने नेत्रे 'लोचनं नयनं नेत्रमीक्षणञ्चक्षु- रक्षिणि' इत्यमर । यस्याः सा तां कुब्जेन चञ्चललोचनां धीरं यथास्यात्तथा धैर्यमवलम्ब्याऽङ्कं स्वोत्सङ्कमारोप्य प्रतिष्ठाप्योज्ज्वला शुभ्रा द्विजानां दन्तानां 'दन्तविप्राण्डजा द्विजाः' इत्यमरः । आवली पङ्क्तिस्तस्य कान्तयः एव जलानि तैरातङ्क एव व्यथैव कलङ्को मालिन्यं तं हरन्निवाऽपमृजन्निवाऽवोचतोक्तवान् । हास्येन स्वभावं गोपयन् पत्न्या सान्त्वनमकरोत् । अत्रोत्प्रेक्षाऽलङ्कारः । भाषा अपनी पत्नी को दुःखी देखने के अनन्तर राजा के हृदय मे दया का संचार होकर उसने चंचल नेत्र वाली रानी को, धीरज के साथ अपनी गोद म बैठाकर मानो सफेद दांतों की कतार की कान्ति रूपी जल से पीड़ा रूपी धब्बे को धोते हुए कहा अर्थात् हँसते हुए रानी से कहा । अलं विषादेन करोषि किं मुखं कपोष्णनिःश्वासविधूसराधरम् । अभीष्टवस्तुप्रतिबन्धिनामहं कृताग्रहो निग्रहणाय कर्मणाम् ॥३८॥ अन्वयः विषादेन अलं, मुखं कपोष्णनिःश्वासविधूसराधरं कि करोषि । अहं अभीष्टवस्तुप्रतिबन्धिनां कर्मणां निग्रहणाय कृताग्रहः (अस्मि) । व्याख्या विषादेनाऽलं शोक परिहर्तव्यः । 'अलं भूषणपर्याप्तिशक्तिवारणवाचकम्'