विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 140, कुल 493 में से
संदर्भ में पढ़ें( ११७ ) व्याख्या ततस्तमात्कारणात्प्रभूतो बहलो भावो भक्तिभावो यस्य स एष अहं जितानि वशीकृतानीन्द्रियाणीन्द्रियसभूहो येन स वशीकृतेन्द्रियसमोहस्सन्न त्वया सह भवत्या सह तावत्कालपर्यन्तं तपसे तपश्चरणाय प्रयते महोयोगं करिष्ये यावत्कालं विभाार्या रजन्याः 'विभावरीतमस्विन्यौ रजनो यामिनी तमी' इत्यमर । वल्लभः प्रियश्चन्द्रस्तस्य खण्ड एव कलैव मण्डनं भूषणं यस्य स जगतां भुवनानां 'विष्टपं भुवनं जगत्' इत्यमरः। गुरु श्रेष्ठ सः शंकरो दयां कृपामार्याति प्राप्नोति । करुणाईमानसस्तनमभीष्टवरप्रदानं करोतीत्यर्थ । भाषा इसलिये दृढ भक्ति से युक्त, में तुम्हारे साथ इन्द्रियो को वश में करके अर्थात् सयम से तब तक तप करने में प्रयत्नशील रहूँगा जब तक अर्धचन्द्र से शोभित जगत्प्रभु शंकर को मेरे ऊपर दया न आ जाए । विधाय शान्त्यै कलुषस्य कर्मणस्तदेष सर्वेन्द्रियतापनं तपः । नयामि भक्त्या झटिति प्रसन्नतामखण्डया खण्डशशाङ्कशेखरम् ॥४२॥ अन्वयः तत् एषः (अहं) कलुषस्य कर्मणः शान्त्यै सर्वेन्द्रियतापनं तपः विधाय अखण्डया भक्त्या खण्डशशाङ्कशेखरं झटिति प्रसन्नतां नयामि । व्याख्या ततस्तमात्कारणादेषोऽहं कलुषस्य दुष्कृतस्य 'कलुषं वृजिनैनोध्वमंहो दुरित- दुष्कृतम्' इत्यमरः । कर्मणः क्रियाकलापस्य शान्त्यै विनाशाय सर्वेन्द्रियाणां नेत्रादीनां तापनं पीडनं यस्मिन्तत्तपो दुष्करतपस्यां विधाय कृत्वाऽखण्डयाऽविच्छिन्न- सन्तानया भक्त्या दृढभक्त्येत्यर्थः । खण्डश्चरसो शशाङ्कश्चन्द्रश्च सः शेखरं शिरोभूषणं यस्य तं शिवं झटिति द्राक् 'द्राक् झटित्यंजसान्ह्वाय द्राङ् मंखु सपदि द्रुते' इत्यमर । प्रसन्नतां प्रसादं नयामि प्रापयामि । अत्रानुप्रासोऽलङ्कारः । भाषा इसलिये में पुत्रप्राप्ति के बाधक पापकर्मों का नाश कर डालने के लिये समग्र इन्द्रियो को कष्टप्रद, घोर तपस्या कर, अविच्छिन्न दृढभक्ति से चन्द्रशेखर भगवान् शङ्कर को शीघ्र ही प्रसन्न करूंगा ।