विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 141, कुल 493 में से
संदर्भ में पढ़ें( ११८ ) तथेति देव्या कृतसम्मतिस्ततः समस्तचिन्तां विनिवेश्य मन्त्रिषु । अभूदनुष्ठानविशेषतत्परः स पार्थिवः प्रार्थितवस्तुसिद्धये ॥४३॥ अन्वयः ततः देव्या इति तथा कृतसम्मतिः सः पार्थिवः समस्तचिन्तां मन्त्रिषु विनिवेश्य प्रार्थितवस्तुसिद्धये अनुष्ठानविशेषतत्परः अभूत् । व्याख्या ततस्तदनन्तरं देव्या पत्न्या 'एतद् भवदुक्तं पुत्रोत्पत्तिरूपं कार्यं तपस्साधनेन स्या- दिति हेतोस्तथैवास्तु, इति कृता सम्मतिर्येन स कृतनिश्चयस्स पार्थिवो राजा समस्तां संपूर्णां चिन्तां राज्यभारचिन्तां मन्त्रिष्वमात्येषु विनिवेश्य विनिक्षिप्य प्रार्थितस्याभीष्टस्य वस्तुनः पुत्रस्य सिद्धये प्राप्तयेऽनुष्ठानविशेषे विशिष्टानुष्ठाने तत्पर आसक्तोऽभूत् । 'तत्परे प्रसितासक्तौ' इत्यमरः । भाषा इसके अनन्तर, अपनी रानी की सम्मति मिलने पर, उस राजाने राजकाज का बोझ मन्त्रियों को सौंपकर अभीष्ट पुत्रप्राप्ति की सिद्धि के लिये विशिष्ट अनुष्ठान करना प्रारम्भ कर दिया । तपः स्वहस्ताहृतपुष्पपूजित-त्रिलोचनः स्थण्डिलवासधूसरः । तथा स राजर्षिरमाधयद्यथा महर्षयोऽस्मादपकर्षमाययुः ॥४४॥ अन्वयः सः राजर्षिः स्वहस्ताहृतपुष्पपूजितत्रिलोचनः स्थण्डिलवासधूसरः (सन्) तथा तपः असाधयत् यथा अस्मात् महर्षयः अपकर्षम् आययुः । व्याख्या स राजर्षि ऋषिव्रतगृहीतो नृपः स्वहस्ताभ्यां स्वकराभ्यामाहृतानि समानीतानि च तानि पुष्पाणि कुसुमानि तैः पूजितोऽभ्यर्चितस्त्रिलोचनः शंकरो येन सः स्थण्डिले भूमिविशेषे वासेन शयनादिना 'यः स्थण्डिले व्रतवशाच्छेते स्थण्डिलशाय्यसौ' इत्यमरः । धूसरः सरजस्कस्तन् तपोग्रं तपस्तपश्चरणमसाधयत् कृतवान्