भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 151, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 151

( १२८ ) अनन्यसामान्यतनूजशंसिनीं स्मरन्नजस्रं गिरमुद्गतां दिवः । द्वितीयगर्भार्थमभूत्स निर्भरं समुत्सुको मध्यमलोकनायकः ॥५६॥ अन्वयः मध्यमलोकनायकः सः दिवः उद्गतां अनन्यसामान्यतनूजशंसिनीं गिरं अजस्रं स्मरन् द्वितीयगर्भार्थं निर्भरं समुत्सुकः अभूत् । व्याख्या मध्यमश्चासौ लोकश्च मध्यमलोको भूलोकस्तस्य नायको मध्यमलोकपालो भूपालः स राजाऽहवमल्लदेवो दिव आकाशादुद्गतां समागतां नान्यः सामान्य- स्तत्समानो यस्य स चासौ तनूजः पुत्रश्च तं शंसति निवेदयतीति तां गिरं वाणीमजस्रं निरन्तरं ‘नित्यानवरताजस्रम्’ इत्यमरः । स्मरन् द्वितीयगर्भार्थं द्वितीयगर्भकृते निर्भरमत्यन्तं समुत्सुक उत्कण्ठितोऽभूत् । भाषा वह भूलोक का राजा असाधारण व अलौकिक पुत्र प्राप्त होने की आकाश- वाणी को सदैव स्मरण करता हुआ, दूसरे गर्भ के लिये अत्यन्त उत्कण्ठित हुआ । स्थितस्य गर्भे प्रभयेव कस्यचिद् विलिप्यमानां स्फटिकामलत्विषः । स गण्डपालीं बिसदण्डपाण्डुरां ददर्श देव्याः पृथिवीपतिस्ततः ॥६०॥ अन्वयः ततः पृथिवीपतिः स्फटिकामलत्विषः गर्भे स्थितस्य कस्यचित् प्रभया इव विलिप्यमानां बिसदण्डपाण्डुरां देव्याः गण्डपालीं ददर्श । व्याख्या ततस्तदनन्तरं पृथिवीपती राजा स्फटिकस्याऽमला निर्मलात्विङिव प्रभेव ‘स्युः प्रभारुग्रुचिस्त्विड्भाभाश्छविधुतिदीप्तयः’ इत्यमरः । त्विट् प्रभा यस्य स तस्य स्फटिकमणिसमानशुभ्रकान्तेगर्भे उदराभ्यन्तरे स्थितस्य विद्यमानस्य कस्य- चिद् गर्भस्य प्रभयेव कान्त्येव विलिप्यमानां रज्यमानामवुलिप्यमानाञ्च बिसदण्ड इव मृणालखण्ड इव ‘मृणालं बिसमब्जादि’ इत्यमरः । पाण्डुरां शुभ्रवर्णां देव्या महिष्याः गण्डपालीं कपोलं ददर्श दृष्टवान् । अत्रोपमोत्प्रेक्षयोः संकरः ।