विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 152, कुल 493 में से
संदर्भ में पढ़ें( १२९ ) भाषा इसके अनन्तर राजा ने स्फटिक की निर्मल कान्ति के समान शुभ्र कान्ति वाले गर्भस्थित किसी (गर्भ) की कान्ति से मानो छाए हुए, कमलनाल के सदृश श्वेत रंग के रानी के कपोलस्थल को देखा । स हेमवृष्टिं महतीमकारयच्चकार चित्राण्युपयाचितानि च । हरप्रसादोचितसूनुलालसश्चकार किं किं न नरेन्द्रचन्द्रमाः ॥६१॥ अन्वयः सः महतीं हेमवृष्टिं चित्राणि उपयाचितानि च चकार। हरप्रसादो- चितसूनुलालसः नरेन्द्रचन्द्रमाः किं किं न चकार । व्याख्या स राजा महतीं विशालां हेमवृष्टिं सुवर्णवृष्टिं चित्राण्याश्चर्यकराण्युपया- चितानि स्वमनोरथसिद्धये स्वाभीष्टदेवतायै पूर्वं संकल्पितानुपहारारंश्च चकार । "दीयते यत्तु देवेभ्यो मनोरथस्य सिद्धये । उपयाचितकं दिव्यं दोहवं तद्दि- दुर्वुधाः" । स राजा याचकेभ्यः प्रचुरं सुवर्णं दत्तवान् देवेभ्यश्च स्वाभिलषित- सिद्धये पूर्वसंकल्पितानुपहारान् पूजनादिमियेणार्पितवानिति भावः । हरस्य शिवस्य यः प्रसादः प्रसन्नता 'प्रसादस्तु प्रसन्नता' इत्यमरः । तदुचितात्तदनुकूलो यः सूनुः पुत्रस्तस्मिन् लालसोत्कटकल्पना यस्य स 'कामोऽभिलाषस्तर्षश्च सोऽत्यर्थं लालसा द्वयोः' इत्यमरः । नरेन्द्राणां राज्ञां तारकाणामिव मध्ये चन्द्रमाश्चन्द्र इवाह्लादको मनोहरी च स राजा किं किं समुचितं कार्यं न चकार कृतवान् । सर्वमेव तद्योग्यं समुचितं कार्यं कृतवानित्यर्थः । अत्रार्यापत्यलङ्कारस्तेन सम्बदा- मुरव्यैः प्रतीयते । भाषा उस राजा ने सुवर्ण की घोर वृष्टि की अर्थात् याचकों को खूब सुवर्णदान दिया । देवताओं की जो विचित्र मनौतियां की थीं उनको पूरा किया । शंकर के प्रसाद के अनुकूल पुत्र पाने की लालसा रखने वाले उस राजा ने क्या २ नहीं किया अर्थात् तदनुकूल सब कुछ किया । ९