भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 16, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 16

( ९ ) एतादृशैर्युक्तियुक्तैर्वचनैः स्वदृढव्रतत्वं प्रकटितवानिति । महाकविना बिल्हणेनेत्थमेव तत्र तत्र नायकस्य धीरोदात्तत्वं प्रतिपादितम् । अत्रैतिहासिकतत्त्वसंरक्षणपरा डा० वूह्लरादयो विपश्चिद्वरा विप्रवदन्ति— ‘महाकविना बिल्हणेन स्वकृतावैतिहासिकं तथ्यं विलोपीकृतमिति' । वस्तुतस्त्वे- तद्दूषणमापातत एव प्रतिभाति न तत्त्वदृष्ट्या । प्रकृतकृतिरितिहासमूलाऽपि काव्यमेव नेतिहासः । अत्र कविना प्राधान्येन प्रकाशनीयं कवित्वमेव, न त्वितिहासतत्त्वम् । यत्त्वत्रेतिहासतत्त्वं प्रकाशितं तदानुषङ्गिकत्वेन न प्रधानत्वेन । कल्पनाकाननसञ्चरणपराणामेतादृशानामेव कवीनां कृतिमृद्दिश्य— अपारे काव्यसंसारे कविरेव प्रजापतिः । यथास्मै रोचते विश्वं तथेदं परिवर्तते ॥ शृङ्गारी चेत्कविः काव्ये जातं रसमयं जगत् । स चेत्कविर्वीतरागोनीरसं व्यक्तमेव तत् ॥ (अग्निपुराणे) एतादृश्यूक्तिः समजनि । किं बहुना, महाकवीनामेतादृशा कृते स्वनायकस्य मर्यादासंरक्षणार्थमालङ्कारिकैः सुधीभिः स्तोकरूपा स्वतन्त्रताऽपि प्रदत्ता । यथा सा साहित्यदर्पणे— यत्स्यादनुचितं वृत्तं नायकस्य रसस्य वा । विरुद्धं तत्परित्याज्यमन्यथा वा प्रकल्पयेत् ॥ इति । अतएव धीरोदात्तनायकेन श्रीरामचन्द्रेण छद्मना वालिहननमनुचितमिति धिया महानुभूतिना भवभूतिना वीरचरिते रामवधार्थमायातो वाली रामेण व्यापादित इति प्रतिपादितम् । अपरञ्च, काव्यसाधितं वस्तु मिथ्यारूपमितिहास- प्रकाशितमेव तथ्यमित्यत्र वा नाम विनिगमना ? इतिहासवर्णितमपि वस्तु वितथं विलोक्यते । यथा वङ्गेतिहासे सिराजुद्दौलाभिधानेन बङ्गाधीशेन कृष्ण- प्रकोष्टे (Black Hole of Calcutta.) बहव आँग्लदेशाभिजना निरुद्धास्तत्र च स्थानस्य सङ्कुचितत्वाद्वहुसंख्या उपरता अल्पा एवावशिष्टा इति यदि- तिहासे लिखितं तत्साम्प्रतं मिथ्यैवेति बहुभिर्विद्वद्भिः साधितम् । एवंविधे व्यतिकरे लोचनगोचरे सति प्रकृतेऽपि प्रकृतचरितनायकस्य तत्सदस्यैश्चप्रदर्शितं वृत्तं वितथमितिहासनिर्दिष्टमेव तथ्यरूपमित्यपि सर्वतोभावेन प्रतिपादयितुं न शक्यम् । कालान्तरे विस्तृतगवेषणानन्तरं प्रकृतकविसृष्टवृत्तस्य सत्यत्वसिद्धि- रपि संभाव्यते । श्री नागरमहोदयैः स्वोपोद्घाते डा० वूह्लरखण्डिता यास्मिं- दैतिहासिकघटनाः डा० वूह्लरमतखण्डनपूर्वकं सयत्नेन प्रमाणीकृता वर्तन्ते ।