विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 17, कुल 493 में से
संदर्भ में पढ़ें( १० ) ऐतिहासिकेन विदुषा सम कवेरिय कलहवार्ता नाऽनैव पाश्चात्यदेशेऽपि स्फुटमापद्यते । प्रतीच्यामैतिहासिकोपन्यासलेखकानागादिमो नूतनवाट (New way.) प्रकाशक सर् वाल्टर स्काट् (Sir Walter Scott) महाशयोऽपीत्थमेव दूषणभाजन समजति । आधुनिकानामाङ्गलेतिहासज्ञाना फ्रीमेनाभिधान कोविद परमप्रसिद्ध । उपन्यासप्रस्तुतायामतिहासविस्मृतौ रोष प्रदर्शयता कृतिनाऽमु- नाऽभिहित—'यूरोपदेशोद्भूते धर्मयुद्धयात्रायुगे (The age of the Crusades) ये किमपि ज्ञातुमीहन्ते तै स्काट्कृत 'आइवान हो' (Ivanho) नाम उपन्यासो न पाठ्य इति । अत्राऽपि समाधान पूर्ववदेव बोध्यम् । एवमेवाऽत्र कृतौ महाकविना चरितनायकस्य तत्त्कार्यकालानाम पौर्वापर्यविपर्ययोऽकारीति यद्द्षणमुपन्यस्त तत्रेय वार्ता—नेय कृति प्राधान्येनेतिहास प्रत्युत काव्यमेव । महाकविना स्वलेखनसौविध्यमाचरतेत्थमाचरितमतो नाऽत्र स उपालम्भभाजनम् । 'शृङ्गारवीरशान्तानामेकोऽङ्गी रस इष्यते' । इत्युक्तेरत्र वीरोऽङ्गी रसो यथायथमङ्गरूपाणि रसान्तराणि न बोद्धव्यानि । मङ्गलाचरणरूपे प्रथमश्लोके कृपाणमुपवर्णयता महाकविनाऽस्य महाकाव्यस्य वीररसाधायित्व द्योतितमेव । अत्र सत्स्वप्यलङ्कारान्तरेषु महान्कविर्विशेषत उपमोत्प्रेक्षादृष्टान्तार्थान्त- रन्याससमासोक्त्यनुप्रासादीन् बाहुल्येन लोचनगोचरीकरोति । यद्यपि स्वकृत्या कृतसुहृदयहृदयसवनन स नाऽय महाकविर्बिल्हण काश्मीरेषु प्राप्तजन्मत्यथाप्यस्य कल्याण चालुक्य-वंशस्य षष्ठविक्रमादित्यस्य विक्रमाङ्क- देवापरनामकस्य सभापण्डित आसीत् । भारते वर्षेऽस्य षष्ठविक्रमादित्यस्य शासन १०२६ त ११२७ खॄष्टाब्दपर्यन्त स्थितम् । काश्मीरेषु प्रवरपुरम् (श्रीनगरम्) प्रधाननगरमस्ति । तस्मात्क्रोशत्रये खोनमुखनामक ग्राम महाकविरय स्वजन्मनाऽलङ्कृतवान् । तत्र कौशिकगो- त्रोत्पन्ना ब्राह्मणा निवसन्ति स्म । तदन्वयमेवाऽय भूषितवान् । अस्य प्रपितामहो मुक्तिफलश पितामहो ऽराजकलश पिता च ज्येष्ठकलश आसीत् । अस्य मातुर्नाम नागादेवीति । अस्य ज्येष्ठभ्राता इष्टरामोऽनुजश्चाऽऽनन्दनामाऽऽसीत् । द्वावप्येतो भ्रातरी विद्वत्तया तत्र प्रसिद्धावास्ताम् । काश्मीरेष्वेव ससर्ववेदशास्त्राण्यधीत्य बाणभट्ट इवायमपि विदेशान्प्रति प्रतस्थे । मथुराया वृन्दावने च शास्त्रार्थविषयेषु पण्डितान्विजित्य क्रमश कान्य- कुब्जत प्रयाग समाजगाम । सत काश्या डाहलाधीशस्य कर्णनृपते. सभाया