विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 173, कुल 493 में से
संदर्भ में पढ़ें( १५० ) अन्वयः अथ विधानवित् असौ अवनीनाथः समुचिते कर्मणि आस्थापरेण पुरोधसा कथितं सर्वं विधाय प्रति सूनुस्पर्शात् मुहुः महोत्सवम् अन्वभूत् । हि इह गृहिणां गार्हस्थ्यस्य इदं प्रधानं फलम् । व्याख्या अथ पुत्रजन्मानन्तरं विधानं शास्त्रविधिं वेत्ति जानातीति विधानविच्छास्त्र- विधिज्ञोऽसौ प्रसिद्धोऽवनीनाथः पृथिवीपतिः समुचिते पुत्रजन्मसमयोचिते कर्मणि धार्मिककृत्ये आस्था दृढभक्तिः परं प्रधानं यस्य स तेन धार्मिककार्येषु दृढभक्ति- परायणेन पुरोधसा पुरोहितेन 'पुरोधास्तु पुरोहितः' इत्यमरः । कथितं सूचितं सर्वं समग्रं धर्मकृत्यं जातकर्मादिकं विधाय सम्पाद्य प्रतिसूनुस्पर्शात् प्रत्येकं पुत्र- स्पर्शविसरान्मुहुः पुनः पुनः 'मुहुः पुनः पुनः शश्वदभीक्ष्णम्' इत्यमरः । महोत्सवं महदानन्दमन्वभूदनुभवविषयमकुर्वत । हि यस्मात्कारणादिहाऽस्मिन् संसारे गृहिणां गृहस्थाश्रमवासिनां जनानां गार्हस्थ्यस्य गृहस्थधर्मस्येदं पुत्रमुखदर्शन- रूपमेव प्रधानं मुख्यं फलम् । अत्राऽर्थान्तरन्यासालङ्कारः । हरिणीच्छन्दः । “रसयुगहयैन्सौ स्लो गो यदा हरिणी तदा ।” भाषा पुत्र जन्म होने के अनन्तर शास्त्रीय विधियों को जाननेवाले उस राजा ने श्रद्धालु कुलपुरोहित द्वारा कथित पुत्र जन्म के लिये उचित सब जातकर्म वादि धर्म कृत्यों को विधिवत् कर पुत्रदेह के प्रत्येक स्पर्श के अवसर से बार २ परम आनन्द का अनुभव किया । क्योंकि इस संसार में गृहस्थाश्रम में रहने वालो के लिये गार्हस्थ्य धर्म का पुत्र प्राप्ति ही मुख्य फल है । इति श्री त्रिभुवनमल्लदेव-विद्यापति-काश्मीरकभट्ट श्री बिल्हणविरचिते विक्रमाङ्कदेव-चरिते महाकाव्ये द्वितीय सर्गः । नेत्राब्जास्त्रयुगाङ्कविक्रमशरत्कालेऽथ दामोदरात् भारद्वाज-सुधोत्तमारसमुदितः श्रीविश्वनाथः सुधीः। चक्रे, रामकुबेरपण्डितवरत्प्राप्तसाहाय्यक- ष्टीकायुग्ममिदं रमाकरुणया सर्गे द्वितीये शुभे ॥ ॐ शान्तिः शान्तिः शान्तिः ।