भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 172, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 172

( १४७ ) व्याख्या जगतां भुवनानां भुवनगतमनुष्याणां लोचनानि नयनानि तेषां कृते सुखदाय- कत्वादबालचन्द्रमा बालशशी स नयनातदिशिर्गवस्य नूतनस्य प्रतापस्य तेजसोऽ- ङ्कुराणां किरणाना चक्रं वर्तुलाकारं मण्डलं तद्वत्कान्त्या रमणीयया निरन्तरम- विच्छिन्नं पड्क्त्याकारमाऽऽरात्रिकं बालस्य पुरस्तात् प्रज्वलितं दीपं भ्रमणं तस्य दीपसम्पदा दीपसम्पत्त्या, उदयसन्ध्ययेव सायं सन्ध्ययेव श्रियं शोभां समाजहार स्वीचकार । अर्थात् द्वितीयाचन्द्रः सन्ध्याकाले लोकैरारातिक्येन पूज्यते तद्वदयं बाल आरातिक्येन शोभितोऽभूदिति भाव । अत्रोपमारूपकयोः सकरः । भाषा १ जगत् भर के मनुष्यो की आंखो को आनन्द देने वाला बालचन्द्र स्वरूप वह बालक, नूतन तेज की किरणो के चक्र के समान रमणीय सतत आरती के दीपक की ज्योति से साम काल की बालचन्द्र की शोभा को उत्पन्न कर रहा था । प्राय सभी लोग दूज के चांद को सायं काल में आरती कर पूजा करते हैं । वैसे ही यह भी आरती से शोभित हुआ । आसन्नरत्नगृहभित्तिषु निर्मलासु लोकोत्तरेण वपुषा प्रतिबिम्बितेन । सेवां स्मरिष्यति कृतज्ञतयेव दिग्भिरङ्के गृहीत इव राजसुतो रराज ॥८८॥ अन्वयः राजसुतः निर्मलासु आसन्नरत्नगृहभित्तिषु प्रतिबिम्बितेन लोकोत्तरेण वपुषा (अयं) कृतज्ञतया सेवां स्मरिष्यति (इति) दिग्भिः अङ्के गृहीतः इव रराज । व्याख्या राज्ञः सुतो राजपुत्रो निर्मलासु निर्मलकान्तिष्वाऽऽसन्नाः समीपयाश्च रत्नगृहभित्तयो रत्नखचितगेहकुड्यानि तासु प्रतिबिम्बितेन प्रतिच्छायां गतेन लोकोत्तरेणाऽलौकिकेन वपुषा शरीरेण 'गात्रं वपुः संहननं शरीरं वत्मं विग्रहः' इत्यमरः । हेतुनाऽयं कुमारः कृतज्ञतया कृतमुपकृतं जानाति स्मरतीति कृतज्ञ- स्तस्य भावः कृतज्ञता तया सेवामस्मत्कृतां सेवां स्मरिष्यतीति दिग्भिःकाष्ठाभिरङ्के उत्सङ्गे गृहीत इव धारित इव रराज शुशुभे । अत्रोत्प्रेक्षालङ्कारः । वसन्त- तिलकाच्छन्दः । उक्ता वसन्ततिलका तभजाजगौगः ।"