भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 171, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 171

( १४६ ) भाषा जैसे अद्भूतगुणयुक्त शुभलग्न में पूर्वजनि किसी भी सार्वभौम राजा ने जन्म नहीं पाया था ऐसे शुभ लग्न में भगवान् शंकर की कृपा से राजा को पुत्र हुआ । चतुर्भिः पताका-कलापकमित्यर्थः । सुरप्रसूनन्यपतन्सषट्पद-ध्वनीनि दध्वान सुरेन्द्रदुन्दुभिः । परं प्रसादं ककुभः प्रपेदिरे गुणैः कुमारस्य सहोत्थितैरिव ॥८६॥ अन्वयः सषट्पदध्वनीनि सूरप्रसूनानि अपतन् । सुरेन्द्रदुन्दुभिः दध्वान । कुमारस्य सहोत्थितैः गुणैः ककुभः परं प्रसादं प्रपेदिरे इव । व्याख्या षट्पदानां भ्रमराणां 'षट्पदभ्रमरालयः' इत्यमरः । ध्वनिना शब्देन सहि- तानि सषट्पदध्वनीनि सुरप्रसूनानि देवकुसुमानि 'प्रसूनं कुसुमं सुमम्' इत्यमरः । आकाशादपतन् पुष्पवृष्टिर्बभूवेत्यर्थः । सुरेन्द्रस्य पाकशासनस्य दुन्दुभिः दुंदुमिति शब्देन भातीति दुन्दुभिः भेरी 'भेरी स्त्री दुन्दुभिः पुमान्' इत्यमरः । दध्वान शब्दं चकार । कुमारस्य नवजातशिशोः सहोत्थितैर्जन्मना साकं समुत्पन्नैर्गुणैर्द्र- यादाक्षिण्यादिमहापुरुषगुणैः ककुभः दिशः 'दिशस्तु ककुभः काष्ठा आशाश्च हरितश्च ताः' इत्यमरः । प्रसादं प्रसन्नतां निर्मलत्वं वा प्रपेदिरे इव प्राप्ता इव । अत्रोत्प्रेक्षालङ्कारः । भाषा आकाश से भौंरो की गुंजार से युक्त नन्दन वन के फूलो की वृष्टि होने लगी । देवो के राजा इन्द्र का नगाडा बजने लगा । कुमार के साथ उत्पन्न उसके उज्ज्वलगुणो से मानो सब दिशाएँ प्रसन्न अर्थात् उज्ज्वल हो गईं । नवप्रतापाङ्कुरचक्रकान्त्या निरन्तरारात्रिकदीपसम्पदा । श्रियं जगल्लोचनबालचन्द्रमाः समाजहारोदयसन्ध्ययेव सः ॥८७॥ अन्वयः जगल्लोचनबालचन्द्रमाः सः नवप्रतापाङ्कुरचक्रकान्त्या निरन्तरारात्रिक- दीपसम्पदा उदयसन्ध्यया इव श्रियं समाजहार ।