विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 170, कुल 493 में से
संदर्भ में पढ़ें( १४५ ) अन्वयः गृहोदरस्थे जरतीपरिग्रहे उपांशु किमपि स्वमतोपदेशिनि (सति), अनल्पशोकासु शुकाङ्गनासु अपि निवासपञ्जरात् वितीर्णकर्णासु सतीषु (नृपतेर्नन्दनोऽजायतेत्यन्वयः) । व्याख्या गृहोदरस्थे प्रसूतिगृहमध्यस्थे जरतीपरिग्रहे वृद्धनारीसमूहे उपांशु रहः शनै- रित्यर्थः । ‘विविक्तविजनच्छन्ननिःशलाकास्तथा रहः । रहश्चोपांशु' इत्यमरः । किमपि प्रच्छन्नमुपायमालम्ब्य स्वमतस्य स्वाभिप्रायस्योपदेशिनि प्रकाशयत्यात्म्यति सति । अनल्पः शोको यासां तासु बहुशोकासु कीराङ्गनास्त्वपि शुकस्त्रीष्वपि निवासपञ्जरात् स्वनिवासस्थानभूतपिञ्जरादेव न तु बहिर्निःसृत्य तस्योपाया- भावात् । वितीर्णो दत्तः कर्णः श्रवणं याभिस्तासु किम्भवतीति सोत्कण्ठिता- स्तासां सर्वमाकर्णयन्तीषु सतीषु । (नृपतेर्नन्दनोजायतेति सम्बन्धः ।) अत्रा- तिशयोक्त्यलङ्कारः । भाषा प्रसूतिघर में वृद्धी स्त्रियों के धीरे धीरे अपने विचार के अनुसार कुछ उपाय बताते रहने पर, अत्यधिक दुःखी, पिंजरे में की गुग्गियो के भी कान देकर सब सुनते रहने पर । (राजा को पुत्र हुआ ।) अलभ्यत प्राक्तनचक्रवर्तिना न जन्म यत्राद्भुतधाम्नि केनचित्। तथाविधं लग्नमवाप्य नन्दनः शिवप्रसादान्नृपतेरजायत ॥८५॥ अन्वयः 'अद्भुतधाम्नि यत्र प्राक्तनचक्रवर्तिना केनचित् अपि जन्म न अलभ्यत तथाविधं लग्नम् अवाप्य शिवप्रसादात् नृपतेः नन्दनः अजायत । व्याख्या अद्भुतधाम्न्याश्चर्यमयं धाम स्थानं तस्मिन्नाश्चर्यसमुत्पादकवस्तूनां यस्मिन् समुद्योतो भवति तादृशे यत्र लग्ने प्राक्तनः पूर्वजातस्यासी चक्रवर्तिः सार्वभौमश्च तेन केनचिदपि राजा जन्म जनुः 'जनुर्जननजन्मानि जनिरुत्पत्तिरुद्भवः' इत्यमरः । नालभ्यत न लेभे तथाविधं लग्नं शुभमुहूर्तमवाप्य संप्राप्य शिवप्रसादाच्छङ्करकृपा- कटाक्षात् नृपतेर्नृपमाहवमल्लदेवं 'कर्मणि षष्ठी' पुत्रः सूनुरजायत समुत्पन्नः । १०