विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 182, कुल 493 में से
संदर्भ में पढ़ें( १५७ ) व्याख्या क्रमेण जातकर्मादिसंस्कारानन्तरं सम्पादितं निष्पादितं चूलकर्म चूडाकर्म- संस्कारो यस्य सः सम्पादितचूलकर्मा स नन्दयतीति नन्दनः सर्वजनानन्ददाता पुत्रश्चालुक्यवंशीया ये भूपाला नरेश्वरास्तेषां धुरन्धरस्याऽग्रगण्यस्याऽऽहवमल्ल- देवस्य विनोदलीला मनस आनन्दविहारलीला एव कुसुमानि पुष्पाणि 'स्त्रियः सुमनसः पुष्पं प्रसूनं कुसुमं सुमम्' इत्यमरः। तेषामुच्चयास्तसमूहाः 'समुदाय- स्तमुच्चयः समवायश्चयो गणः' इत्यमरः। तेषां नन्दनतामिन्द्रस्य नन्दनवदना- मककाननस्वरूपतामवाप प्राप्तवान्। यथा नन्दनवने पुष्पोच्चयानामियत्ता नास्ति तथैवास्य राज्ञो मनसि विनोदलीलानामप्याधिक्यं बभूवेति भावः। पुत्रे नन्दनवनत्वारोपे विनोदलीलासु कुसुमत्वारोपस्य कारणत्वात्परम्परितं रूपकम्। 'नियतारोपणोपायः स्यादारोपः परस्य यः। तत्परम्परितं श्लिष्टे वाचके भेदभाजि वा॥' भाषा धीरे २ जातकमादि सस्कारों के अनन्तर चौलकर्म संस्कार होने के बाद वह राजपुत्र, चालुक्य वंशीय राजाओं में श्रेष्ठ आहवमल्लदेव राजा के मानसिक आनन्द विहार लीला रूपी पुष्पसंचयों का इन्द्र का नन्दनवन ही हो गया। अर्थात् जिस प्रकार नन्दन वन में अगणित पुष्प समुदाय होते हैं वैसे इस राजा के मन में इस बालक को देख कर अपरिमित आनन्द विहार लीलाओं का प्रादुर्भाव हुआ। उत्सङ्कमारुह्य नरेश्वरस्य स पांसुलीलापरिधूसराङ्गः। निजाङ्गतः संगलितैः परागैश्चक्रे मनःकार्म्मणचूर्णयोगम् ॥१०॥ अन्वयः पांसुलीलापरिधूसराङ्गः सः नरेश्वरस्य उत्सङ्गम् आरुह्य निजाङ्गतः संगलितैः परागैः मनःकार्म्मणचूर्णयोगं चक्रे। व्याख्या पांसुषु धूलिषु 'रेणुर्द्वयोः स्त्रियां धूलिः पांसुर्ना न द्वयो रजः' इत्यमरः। लीला क्रीडा तया परिधूसराणीषदपाण्डून्यङ्गानि यस्य सः 'हरिणः पाण्डुरः पाण्डुरीषत्पाण्डुस्तु धूसरः' इत्यमरः। धूलिक्रीडनेन धूलिधूसरिताङ्गः स बालकः