विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 183, कुल 493 में से
संदर्भ में पढ़ें( १५८ ) नराणामीश्वरस्तस्य मानवेस्वरस्य रीते उत्सङ्गमङ्कमारुह्य स्थित्वा निजाङ्गतः स्वीयावयवेभ्यः संगलितैरधःपतितैः परागैर्धूलिभिर्जनेश्वरस्य मनसो हृदयस्य कामणं धूलोपदिद्वारा यत्क्रिया 'मूलकर्म तु कामंणम्' इत्यमरः । तत्कृते यच्चूर्णनोषधिक्षूणं तस्य योगं योजनां चक्रे विहितवान् । कुमाराङ्गगलितै- धूलिभिर्नृपस्य प्रेमपूरितं हृदयं वशीकृतमिवे संजातमिति भावः । अत्र निदर्शनालङ्कारः । भाषा मिट्टी में खेलने से धूल से भरे शरीर वाला अतएव कुछ सफेद वर्ण का दिखलाई पड़ने वाला वह बालक, राजा की गोद में बैठ कर अपने शरीर से झडी हुई धूलि से मानो राजा के मन को वशीकरण करने का औषधिक्षूर्ण प्रयोग करता था । राज्ञां प्रणामाञ्जलिसम्पुटेषु किमप्यवज्ञामुकुलीकृताक्षः । तस्यैकहस्ताम्बुरुहप्रणामे कृतार्थमात्मानममंस्त देवः ॥११॥ अन्वयः राज्ञां प्रणामाञ्जलिसम्पुटेषु किमपि अवज्ञामुकुलीकृताक्षः देवः तस्य एकहस्ताम्बुरुहप्रणामे आत्मानं कृतार्थम् अमंस्त । व्याख्या राज्ञां सामन्तभूपानां प्रणामार्थं विहितमञ्जलिसम्पुटं तेषु सत्सु, द्वाभ्यां युताभ्यां कराभ्यां सर्वै राजभिर्नमस्कारे कृते सतीति भावः । किमप्यनिर्वचनीय- प्रकारेण हेत्वर्थेत्यर्थः । अवज्ञयोपेक्षया 'रीडावमाननावज्ञायहेलननसूतकणम्' इत्यमरः । मुकुलीकृते 'अमुकुलो मुकुलः कृतः इति मुकुलीकृतः' 'अभूततद्भावेचि्वः । कुड्मलो मुकुलोऽस्त्रियाम्' इत्यमरः । ईषद्सङ्कुचितेऽक्षिणी यस्य स देवो राजाऽऽहवमल्लदेवस्तस्य बालकस्यैकहस्ताम्बुरुहेमैककरकमलं समुत्थाप्य कृतः प्रणामस्तस्मिन् सति आत्मानं स्वं कृतार्थं कृतकृत्यं सफलजन्मवन्तमित्यर्थः । अमंस्त मेने । नृपवृन्दाञ्जलिभिः प्रणामे कृतेऽप्यवहेलनयाऽऽहवमल्लदेवस्य दृष्टिस्तेषामुपरि सङ्कुचितेवाऽऽसीत् । परन्तु बालककृतैकहस्तप्रणामे तु स प्रसन्नतया कृतकृत्यो बभूव ।