विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 184, कुल 493 में से
संदर्भ में पढ़ें( १५६ ) भाषा अन्य सामन्त राजाओ से दोनो हाथ जोड़कर प्रणाम किये जाने पर भी अवहेलना से अपनी आंखो को कुछ सकुचित बना लेने वाला राजा आहवमल्लदेव, उस बालक के एकही हाथ से प्रणाम किए जाने पर अपने को कृतकृत्य समझता था। प्रतिक्षणं कुन्तलपार्थिवस्य वितन्वतस्तन्मुखचुम्बनानि । तदीयद्रन्तच्छदजन्मनेव रागेण चेतः परिपूर्णमासीत् ॥१२॥ अन्वयः प्रतिक्षणं तन्मुखचुम्बनानि वितन्वतः कुन्तलपार्थिवस्य चेतः तदीयद्रन्त- च्छदजन्मना रागेण इव परिपूर्णम् आसीत् । व्याख्या प्रतिक्षण निरन्तरं तस्य बालस्य मुखस्याऽऽननस्य चुम्बनानि वितन्वतो विदधतः कुन्तलस्य कुन्तलदेशस्य पार्थिवो राजा तस्य चेतो मानसं दन्तरुचाच्छाद्यन्ते तिरोधीयन्तेऽनेनेति दन्तच्छदोऽधरः 'ओष्ठाधरौ तु रदनच्छदौ 'दशनवाससी' इत्यमरः। तस्माज्जन्म यस्य स तेन बालाधरस्थितेन रागेणेवाऽऽरुणवर्णेनेव मानेतर्षेण प्रेम्णा परिपूर्णं पूरितं बभूव । भाषा क्षण क्षण में उस बालक के मुख को चूमने में प्रवृत्त उस कुन्तलदेश के राजा का हृदय मानो उस बालक के अधरोष्ठ से उत्पन्न होने वाले राग (लालिमा) से लाल हो गया था या राग (प्रेम) से भर गया था । मुखेन्दुसञ्चारकृताभिलाष-कुरङ्गभीत्यर्थमिवार्पितेन । कण्ठावसक्तेन स राजसूनूराजत व्याघ्रनखाङ्कुरेण ॥१३॥ अन्वयः सः राजसूनुः मुखेन्दुसञ्चारकृताभिलाषकुरङ्गभीत्यर्थम् इव अर्पितेन कण्ठावसक्तेन व्याघ्रनखाङ्कुरेण अराजत ।