विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 185, कुल 493 में से
संदर्भ में पढ़ें( १६२ ) अन्वयः प्राप्तोदयः परिवर्द्धमानः बालचन्द्रः सः पादनखैः शीतरश्मेः बालैः अपत्यैः सहखेलनाय अभ्यर्थमानः इव चकासे । व्याख्या प्राप्त उदय उत्पत्तिरोन्नत्यं वा येन सः परिवर्द्धमानो वृद्धिं प्राप्नुवन् बालश्चन्द्र इवेति बालचन्द्रः कुमारो नवीनचन्द्रो वा सः पादनखैरर्द्धचन्द्राकारैः इवेतैश्च प्रतिबिम्बितचन्द्रैर्वा शीतो रश्मिः किरणो. यस्य सः 'किरणोस्त्रमयूखांशु गभस्ति- घृणिरश्मयः' इत्यमरः । शीतरश्मिस्तस्य शीतरश्मेश्चन्द्रस्य बालैर्बालरूपैरपत्यैः पुत्रैः सहखेलनाय सहक्रीडनायाऽभ्यर्थ्यमानः प्रार्थ्यमान इव चकासे विदियुते । पादनखानामुपरि चन्द्रशिशुत्वोत्प्रेक्षा । राजकुमारस्य बालचन्द्रेण सहाभेदाद्रूप- कालङ्कारः । अयं बालचन्द्रः शीतरश्मेर्बालैः क्रीडार्थं प्रार्थित इवाऽभूत् इति बालस्वभावौचित्यं व्यज्यते । भाषा उदित भया हुआ और बढ़ता हुआ, बालचन्द्र के समान वह कुमार, पाव के नखों के स्वच्छ तथा अर्धचन्द्राकार होने से या पाव के स्वच्छ नखों में प्रतिबिम्बित चन्द्र होने से मानो चन्द्रमा के छोटे २ बच्चों से साथ खेलने के लिये पाव पडकर प्रार्थना किये गये के ऐसा शोभित हो रहा था। अर्थात् पाव के नखों के मिष से चन्द्र के बालक पाव पडकर उसके साथ खेलने की प्रार्थना करते थे । परां प्रतिष्ठां लिपिषु क्रमेण जगाम सर्वासु नरेन्द्रसूनुः । पुण्यात्मनामत्र तथाविधानां निमित्तमात्रं गुरवो भवन्ति ॥१७॥ अन्वयः नरेन्द्रसूनुः क्रमेण सर्वासु लिपिषु परां प्रतिष्ठां जगाम । अत्र तथा- विधानां पुण्यात्मनां गुरवो निमित्तमात्रं भवन्ति । व्याख्या नरेन्द्रस्य मनुष्येन्द्रस्य सूनुः पुत्रः क्रमेण शनैः शनैः सर्वास्यखिलासु लिपि- ष्वक्षरविन्यासेषु 'लिपिरक्षरविन्यासे लिपिर्लिबिफमे स्त्रियां' इत्यमरः । परामु- त्कृष्ट प्रतिष्ठां काष्ठामुत्कर्षमित्यर्थः 'काष्ठोत्कर्षे स्थितौ दिशि' इत्यमरः ।