विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 187, कुल 493 में से
संदर्भ में पढ़ें( १६० ) व्याख्या स राजपुत्रो मुखेन्दायमानचन्द्रे सचाराय गमनाय कृतोऽभिलाषो येन स कुरङ्गो लाञ्छनमृगस्तस्य भीत्यर्थं भयोत्पादनायेवार्ऽपतेन धारितेन कण्ठावसक्तेन कण्ठ- लग्नेन व्याघ्रनख एवाङ्कुर स्तेनाऽराजत शुशुभे । बालमुखेन्दौ लाञ्छनमृगस्य गमनवारणाय व्याघ्रनखा कण्ठे समारोपिता । व्याघ्रनखेन तत्र व्याघ्रसत्ता- मनुमाय मृगस्तत्र न गच्छति । अतएव बालस्य मुखचन्द्रो निष्कलङ्क इति भावः । बालकस्याऽरिष्ट निवारणार्थं तस्य गले व्याघ्रनखार्पण भारते प्रसिद्धम् । फलोत्प्रेक्षाऽलङ्कारः । तेन मुखस्य निष्कलङ्कचन्द्ररूपत्व व्यज्यते । भाषा वह राज पुत्र, मुखरूपी चन्द्र में आने की अभिलाषा रखने वाले लाञ्छन मृग को डराने के लिए मानों गले में पहिने हुए व्याघ्रनखाङ्कुर से शोभित हो रहा था अर्थात् व्याघ्र के भय से मृग वहाँ नहीं जा सकता अत एव उसका मुख रूपी चन्द्र निष्कलङ्क था । (लडको के गले में व्याघ्रनख पहनाने की प्रथा भारत में चिरकाल से चली आई है ।) क्रीडन्समुत्सारितवारनारी—मञ्जीरनादागतराजहंसः । एकः क्षितेः पालयिता भविष्यन् स राजहंसासहनत्वमूचे ॥१४॥ अन्वयः क्रीडन्समुत्सारितवारनारीमञ्जीरनादागतराजहंसः सः एकः क्षितेः भवि- ष्यन् पालयिता राजहंसासहनत्वम् ऊचे । व्याख्या क्रीडन् बालोचितक्रीडाविलास कुर्वन् समुत्सारिता निवारिता वारनारीणो वाराङ्गनानां 'वारस्त्री गणिका वेश्या रूपाजीवा' इत्यमरः । मञ्जीरनादेन नूपुरशब्देनाऽऽगता राजहंसा मरालश्रेष्ठा 'राजहंसास्तु ते चञ्चुचरणैर्लोहितैः सिता' इत्यमरः । येन स एवम्भूतः स बालक एक एवैकाक्येव क्षिते सम्पूर्ण- पृथिव्या भविष्यन् भावी पालयिता रक्षिता राजहंसानां श्रेष्ठनृपाणामसहनत्वं तेषां महत्त्वसहनाशक्तत्वमूचे निवेदितवान् । श्लिष्टोत्प्रेक्षालङ्कारः ।