विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 190, कुल 493 में से
संदर्भ में पढ़ें( १६५ ) व्याख्या निशासु रात्रिषु लावण्यस्य सौन्दर्यस्य कलास्तासा कलापाः समूहास्तैः परि- पूर्यमाण तं यत्नः कुमारः चन्द्र इव शशीव नूतनचन्द्रो वा तं समालोक्य दृष्ट्वा कुमुद्वतीनामिव कुमुदिनीनामिव कामिनीनामङ्गनाना निद्रा विमुखोबभूवापससार गतेत्यर्थः । यथा निशासु नवीनचन्द्रं विलोक्य कुमुदिनी विकसिता भवति स्वकुङ्- मलत्वरूपनिद्रा जहाति तथैव कामिन्योऽपि तमद्भुतसौन्दर्ययुक्तं कुमारं निरीक्ष्य कामज्वरपीडिताः सत्यो रात्रौ निद्रा न लभन्तय इति भावः । अत्र कुमुद्वती कामिन्योर्द्वयोरेकक्रियान्वयात्तुल्ययोगितालङ्कारः । भाषा रात्रियों में जिस प्रकार कलासमूहों से क्रमशः परिपूर्ण होने वाले नूतन चन्द्रमा को देखकर कुमुदिनी विकसित हो जाती है और उसकी कलीस्वरूपी निद्रा हट जाती है उसी प्रकार सौन्दर्य से परिपूर्ण होने वाले उस कुमार को देखकर सुन्दरियां काम ज्वर से पीड़ित हो जाती है अतएव रात्रियों में उनकी निद्रा दूर हो जाती है । धैर्येण तस्मिन्नवधीर्य याति स्मरोत्सुकानां नगराङ्गनानाम् । आबद्धमुग्धभ्रुकुटिच्छटानां पेतुः सकोपं नयनोत्पलानि ॥२१॥ अन्वयः धैर्येण अवधीर्य याति तस्मिन् स्मरोत्सुकानाम् आबद्धमुग्धभ्रुकुटीच्छ- टानां नगराङ्गनानां नयनोत्पलानि सकोपं पेतुः । व्याख्या धैर्येण धीरतया स्वस्वाभाविकगुणेन गाम्भीर्येणाऽवधीर्य कामिनीस्तिरस्कृत्य याति गच्छति तस्मिन् कुमारे स्मरेण कामवेगेनोत्सुकानामुद्वेलितमानसानामाबद्धाः सङ्कुचिता अत एव मुग्धा सुन्दर्यो या भ्रुकुटयस्तासा च्छटा शोभा यासां तासां नगराङ्गनानां नागरिकसुन्दरीणां नयनान्येव नेत्राण्येवोत्पलानि इन्दीवराणि तानि सकोप कोपेन सहित यथा स्यात्तथाऽनादर दृष्ट्या समुद्भूतेन क्रोधेन पेतुः न्यपतन् । कामवेगेनोत्सुकानामङ्गनानां धीरतयाऽवधीरणात्तस्मिन् ताः कुपिताः सञ्जाता इति भावः।