विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 20, कुल 493 में से
संदर्भ में पढ़ेंभूपस्तद्वंशावतंसोऽभूत् । ततोऽनुपमशौर्याश्रय सत्याश्रयो नाम नरपति प्रादुर्बभूव । ततश्च समराङ्गणेषु मुहुर्मुहु प्राप्तजयो जयसिंह आविर्भूत । तस्माच्च त्रैलोक्य- मल्लापरनामक आहवमल्लाभिधानो विधुतावदानो नरनायक समजायत । अनुपमविक्रम स नरपालश्चोलदेश मालवराजधानी धाराञ्च जिगाय । डाहलपतिं कर्णञ्च विवर्णं चकार । एवमेव बहुष्वाहवेषु मल्ल स आहवमल्लो द्रविडप्रकाण्ड वीररसस्वाद्भाजनं विदधे, चोलराज्यश्रियञ्चाञ्चकषे ।
द्वितीयसर्गे—
प्रक्रान्तविक्रान्तचरित वाहवमल्लदेव सर्वा ककुभो विजित्य गुणिगण- मण्डिता कल्याणपुरीमात्मराजधानीरूपेण विदधे । समधिगतसम्पदतिशय पूरिताशेषमनोरथोऽपि स भूपतिस्तनयाभावेन दूयमानमानसोऽभूत् । तत स देव्या सम विमृश्य सकलराज्यकार्यभार मन्त्रिषु विनिवेश्य तनुजाऽऽसादनार्थं शङ्करानुष्ठाननिष्ठो बभूव । जातुचिद्दिभाते चन्द्रशेखरपरिचरणपरो नरवर स इमामशरीरिणीं गिरमाकर्णयति स्म—"भो नरपते ! कृतं तपसा । भगवान्पार्व- तीपतिस्त्वयि प्रसादाभिमुख संवृत्त । इय त्वदीया दयिता तनयत्रितयसमन्विता भविष्यति । तत्रापि शिवप्रसादाद्द्वितीयस्तनयोज्ज्वललो भविता" इति । अनन्तर नरदेवो व्रतपारणाविधिं विदध । ततश्च शुभ मुहूर्ते देवी सुतमेक- मसूत, यो नाम्ना सोमेश्वर संवृत्त । ततो माङ्गलिकेऽह्ने अन्य देव्या गर्भतो लोकोत्तर-गुणगणसमलङ्कृत समस्तशुभलक्षणलक्षित शिवप्रसादीकृतो द्वितीय- स्तनय समजति । निरतिशयहर्षप्रकर्षपरवशो महाराजश्चाऽऽत्मजस्य जातकर्मादि- सस्कार सम्पादयामास ।
तृतीयसर्गे—
नवप्रसूत प्रभूतशुभलक्षणपूरितो राजसुत आख्यया विक्रमाङ्कदेव इति ख्यातिमभजत् । स च बालोऽनितरसाधारणगुणवान्बाल एव प्रादर्शयद्रूपेण्व मातापितरौ प्रमोदमेदुरमानसौ । अचिरेणैव समयन विक्रमादित्यो विक्रमाङ्क- देवापरनामा समधिगतसमस्तविद्य संवृत्त । अत्रान्तरे नराधिपस्य जयसिंह- नामकस्तृतीयस्तनयोऽपि समजायत । अथ राजा प्रतापेनाऽऽदित्यसन्निभो द्वितीयम- प्यद्वितीयं विक्रमादित्याभिध तनूज यौवराज्यालब्कृत कर्तुमीयष । ज्येष्ठे भ्रातरि स्थितेऽपि स्वयोवराज्याभ्युपगमे महदनौचित्य पश्यन्नार्येोग्युचितपटु स