विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 202, कुल 493 में से
संदर्भ में पढ़ें( १७७ ) व्याख्या ज्येष्ठं भ्रातरं सोमदेवं परिम्लानं क्रमप्राप्तराज्यलक्ष्मीपरिग्रहाप्राप्त्या मलिनं मुखं वदनं यस्य तं विधाय कृत्वाहं लक्ष्म्या प्रणय स्नेहस्तस्मिन्प्रमुख मुख प्रवण परायणो वा भवामि चेत् तर्हि अन्यायेऽन्याययुक्तकार्ये परायणो लग्नरतेन मया विक्रमाङ्कदेवेनैष गोत्रे विशुद्धचालुक्यवंशे कलङ्कः कालुष्यं लिखितः सम्पादितः । किमन्यदन्यायकार्यम् ? अन्यस्यान्यापकार्यस्याऽन्वेषणप्रयासो व्यर्थ एवेति भावः । भाषा यदि मैं अपने बड़े भाई सोमदेव को क्रमप्राप्त राज्यलक्ष्मी के न प्राप्त होने से उदास बनाकर स्वयं लक्ष्मी के प्रेम में तत्पर हो जाऊँ, तो अन्याय युक्त कार्य करने में तत्पर, मैंने ही इस शुद्ध चालुक्य वंश में कलङ्क लगाया । और क्या अन्याय का कार्य हो सकता है ? तातश्चिरं राज्यमलङ्करोतु ज्येष्ठो ममारोहतु यौवराज्यम् । सलीलमाक्रान्तदिगन्तरोऽहं द्वयोः पदातिव्रतमुद्वहामि ॥३६॥ अन्वयः तातः चिरं राज्यम् अलङ्करोतु, मम ज्येष्ठः यौवराज्यम् आरोहतु, अहं सलीलम् आक्रान्तदिगन्तरः सन् द्वयोः पदातिव्रतम् उद्वहामि । व्याख्या तातः पिता चिरं चिराय 'चिराय चिररात्राय चिरस्याद्याश्चिरार्थकाः' इत्यमरः । राज्यमलङ्करोतु विभूषयतु । मम ज्येष्ठो ज्येष्ठभ्राता सोमदेवो यौवराज्यं युवराजपदम आरोहतु अधितिष्ठतु । अहं लीलया सहितं सलीलं सहेलं यथास्यात्तथाऽऽक्रान्तानि समधिष्ठितानि दिगन्तराणि येन स आक्रान्तदिगन्त- रस्सन् द्वयोस्तातस्य भ्रातुश्च पश्चातेः पत्तेः 'पदातिपत्तिपदगपादातिक पदाजयः' इत्यमरः । व्रतं नियममुद्वहामि धारयामि । अहं तव ज्येष्ठभ्रातुश्च पादातको भूत्वोभयोः सेवां करिष्यामीति भावः । भाषा आप चिरकाल तक राज्य को शोभित करते रहें । बड़े भाई युवराज पद पर आरूढ हो । मैं, बात की बात में समग्र दिशाओं में आक्रमण करता हुआ, आप दोनों का प्यादा बनकर रहूँगा । १२