भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 201, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 201

( १७६ ) दुःख से कहना पड़ता है कि इतना बडा अनर्थ और क्या हो सकता है। यह कलि रूपी हाथी निरङ्कुश हो गया। अर्थात् अब कलि के प्रचार में कोई रोक टोक न रह गई। लक्ष्म्याः करं ग्राहयितुं तदादौ तातस्य योग्यः स्वयमग्रजो मे । कार्यं विपर्यासमलीमसेन न मे नृपश्रीपरिरम्भणेन ॥३७॥ अन्वयः तत् आदौ मे अग्रजः तातस्य लक्ष्म्याः करं ग्राहयितुं स्वयं योग्यः। विपर्यासमलीमसेन नृपश्रीपरिरम्भणेन मे न कार्यम्। व्याख्या तत्तस्मात्कारणात् धर्मानुकूलमर्यादानुरोधात् मे ममाऽग्रजो ज्येष्ठभ्राता तातस्य पितुस्तव लक्ष्म्याः श्रियः कर हस्त ग्राहयितु तातरूपप्रयोजककर्तृक- ज्येष्ठभ्रातृप्रयोज्यकर्तृकलक्ष्मीसम्बन्धिकरग्रहण सम्पादयितुं स्वयमात्मना योग्य- स्समर्थः। विपर्यासेन प्रातिकूल्येन वैपरीत्येन वा 'स्यादभ्यासो विपर्यासो व्यत्ययश्च विपर्यये' इत्यमरः। मलीमसेन कलङ्कितेन 'मलीमस तु मलिन कञ्चटं मलदूषितम्' इत्यमरः। नृपश्रियो राजलक्ष्म्याः परिरम्भणेन समालिङ्गनेन ग्रहणेनेत्यर्थः। मे मम न कार्यं न किञ्चित्प्रयोजनम्। भाषा इसलिये पहिले मेरे ज्येष्ठ भ्राता स्वयं आप के राजश्री का हाथ पकडवाने के योग्य है। क्रमराहित्य के या प्रतिकूलता के कलङ्क से कलङ्कित राजलक्ष्मी को स्वीकार करने से मुझे कोई प्रयोजन नहीं है। ज्येष्ठं परिम्लानमुखं विधाय भवामि लक्ष्मीप्रणयोन्मुखश्चेत् । किमन्यदन्यायपरायणेन मयैव गोत्रे लिखितः कलङ्कः ॥३८॥ अन्वयः ज्येष्ठं परिम्लानमुखं विधाय (अहम्) लक्ष्मीप्रणयोन्मुखः भवामि चेत् (तर्हि) अन्यायपरायणेन मया एव गोत्रे कलङ्कः लिखितः, किम् अन्यत्।