विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)
Vikramankadeva Charitam of Bilhana with Commentary
महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा
पृष्ठ 200, कुल 493 में से
संदर्भ में पढ़ें( १७५ ) अन्वयः तातस्य मयि भूयान् पक्षपातः (तातस्य) विचारचातुर्यम् अपाकरोति । (तातस्य) ज्येष्ठे तनूजे सोमदेवे सति मम यौवराज्ये अधिकारः न अस्ति । व्याख्या तातस्य पितुर्मयि भूयानधिकः पक्षपातः स्नेहान्मदीयपक्षग्रहण तातस्य विचारस्य विवेकस्य चातुर्यं नैपुण्यमपाकरोति दूरीकरोति । अस्मिन्विषये भवदुक्तौ विवेकपुरस्सरविचारप्रावीण्यं न दृश्यत इत्यर्थः । यतस्तातस्य ज्येष्ठे पुत्रे सोमदेवे तन्नामके सति विद्यमाने सति धर्मशास्त्रमर्यादया मम तस्मात् कनीयसो यौवराज्ये युवराजपदेऽधिकारो योग्यत्वमौचित्यञ्च नाऽस्ति न विद्यते । भाषा आप का मेरे प्रति अधिक पक्षपात, आप की विवेकयुक्त विचार की पटुता को दूर कर रहा है । आप के ज्येष्ठ पुत्र सोमदेव के रहते हुए मेरा युवराज पद पाने का कोई अधिकार नही है । चालुक्यवंशोऽपि यदि प्रयाति पात्रत्वमाचारविपर्ययस्य । अहो महद्वैशसमः किमन्य-दनङ्कुशोऽभूत्कलिकुञ्जरोऽयम् ॥३६॥ अन्वयः यदि चालुक्यवंशः अपि आचारविपर्ययस्य पात्रत्वं प्रयाति ( तर्हि ) आः किम् अन्यत्, अहो महत् वैशसम्, अयं कलिकुञ्जरः अनङ्कुशः अभूत् । व्याख्या यदि चालुक्यस्य वंश कुलम्थाऽऽचारो धर्मानुकूलमर्यादा तस्य विपर्ययो वैपरीत्य तस्य पात्रत्वं भाजनत्वं प्रयाति गच्छति तर्हि आः ! इति खेदे । किमदन्यदस्तु । अहो ! इत्याश्चर्ये । महद्वैशस स्यात् महदनर्थप्रयोजक स्यात् । "वैशंसं हिंसा" । अतोऽय कलिकुञ्जरः कलिरूपहस्त्यनङ्कुशो निरङ्कुशो निष्प्रतिबन्धक इत्यर्थ । अभूज्जातः । मर्यादा त्यागे चालुक्यवश कलिकात- पराभूत इत्यपवाद स्यादिति भाव । भाषा यदि चालुक्यवश भी अनाचार का स्थान बन गया तो बडे आश्चर्य और