भारतकोश
विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

विक्रमाङ्कदेवचरितम् (कल्याणी चालुक्य साम्राज्य इतिहास - सटीक)

Vikramankadeva Charitam of Bilhana with Commentary

महाकवि बिल्हण / पं. विश्वनाथ शास्त्री द्वारा

DevanagariSanskritpublished493 पृष्ठ

पृष्ठ 204, कुल 493 में से

संदर्भ में पढ़ें
पृष्ठ 204

( १७९ ) भाषा इसलिए, हे कुन्तलदेशाधिपति ! मेरे प्रति जो आपका अपकीर्तिजनक पक्षपात है उसे छोड़ दीजिये । क्या राजा साहेब (आप) नहीं देखते हैं कि मैं अनायास ही सब राज्य का सौख्य पा रहा हूँ । पुत्राद्वचः श्रोत्रपवित्रमेवं श्रुत्वा चमत्कारमगान्नरेन्द्रः । इयं हि लक्ष्मीर्धुरि पांसुलानां केषां न चेतः कलुषीकरोति ॥४२॥ अन्वयः नरेन्द्रः पुत्रात् एवं श्रोत्रपवित्रं वचः श्रुत्वा चमत्कारम् अगात् । हि पांसुलानां धुरि (स्थिता) इयं लक्ष्मीः केषां चेतः न कलुषीकरोति । व्याख्या नरेन्द्रो राजाऽऽहवमल्लदेवः पुत्रात्सूनोर्विक्रमाङ्कदेवादेवमेवम्भूतं श्रोत्रपवित्रं कर्णपूतं कर्णसुखदायकमित्यर्थः । वचो वाणीं श्रुत्वा निशम्य चमत्कारमाश्चर्य- मगात्प्राप्तः आश्चर्यचकितो बभूवेत्यर्थः । हि यस्मात्कारणात् पांसुलानां स्वैरि- णीनां धुरि अग्रभागे स्थितेयं लक्ष्मीः श्रीः सम्पत्तिरित्यर्थः । केषां पुरुषाणां चेतो मनः 'चित्तं तु चेतो हृदयं स्वान्तं हृन्मानसं मनः' इत्यमरः । न कलुषी- करोति न मलिनीकरोति । अपि तु लक्ष्मीः सर्वानैव सन्मार्गाच्च्यावयतीति भावः । भाषा इस प्रकार पुत्र की कर्ण को पवित्र करने वाली अर्थात् कान को अच्छी लगने वाली वाणी को सुनकर राजा को आश्चर्य हुआ । क्यो कि स्वेच्छा- चारिणियों में अग्रणी लक्ष्मी किनके चित्तो को मलिन नहीं करदेती । अर्थात् लक्ष्मी की प्राप्ति में सभी मनुष्यों का मन कलुषित हो जाता है । सस्नेहमङ्के विनिवेश्य चैन-मुवाच रोमाञ्चतरङ्गिताङ्गः । क्षिपन्निवात्युज्ज्वलदन्तकान्त्या प्रसादमुक्तावलिमस्य कण्ठे ॥४३॥ अन्वयः रोमाञ्चतरङ्गिताङ्गः एनम् अङ्के सस्नेहं विनिवेश्य अस्य कण्ठे अत्युज्ज्व- लदन्तकान्त्या प्रसादमुक्तावलिं क्षिपन् इव च उवाच ।